Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 552
________________ ४६-५० ] चन्द्रमित्त कृतं सप्ततिकाप्रकरणम् । सम्भवति । सर्वसङ्ख्यया अष्टाविंशतिबन्धे सप्त सत्तास्थानानि । देवगतिप्रायोग्यवर्जां शेषामेकोनत्रिंशतं विकलेन्द्रिय-तिर्यक् पञ्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां च बध्नतो मिथ्यादृष्टेः सामान्येन नवापि प्राक्तनानि उदयस्थानानि षट् च सत्तास्थानानि, तद्यथा - द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिः । तत्रैकविंशत्युदये सर्वाण्यपीमानि प्राप्यन्तेः तत्राप्येकोननवतिर्वद्धतीर्थ करनामानं मिथ्यात्वं गतं नैरयिकमधिकृत्यावसेया, द्विनवतिरष्टाशीतिश्च देव-नैरयिक-मनुज-विकलेन्द्रिय तिर्यक्पञ्चेन्द्रिय-एकेन्द्रियानधिकृत्य, षडशीतिरशीतिश्च विकले - न्द्रिय तिर्यक्पञ्चेन्द्रिय- मनुज- एकेन्द्रियानधिकृत्य', अष्टसप्ततिरे केन्द्रिय-विकलेन्द्रिय तिर्यक्पञ्चेन्द्रि यानधिकृत्य | चतुर्विंशत्युदये एकोननवतितर्जानि शेषाणि पञ्च सत्तास्थानानि तानि चैकेन्द्रि यावधिकृत्य वेदितव्यानि अन्यत्र चतुर्विंशत्युदयस्याभावात् । पञ्चविंशत्युदये पडपि सत्तास्थानानि, तानि यथैकविंशत्युदये भावितानि तथैव भावनीयानि । षड्विंशत्युदये एकोननवतिवर्जीनि शेषाणि पञ्च सत्तास्थानानि तानि प्रागिव भावनीयानिः एकोननवतिस्तु न लभ्यते, यतो मिथ्यादृष्टेः सत एकोननवतिर्नर के पूत्पद्यमानस्य नैरयिकस्य प्राप्यते न शेषस्य, न च नैरयिकस्य पविशत्युदयः सम्भवति । सप्तविंशत्युदयेऽष्टमसतिवर्जानि शेषाणि पश्च सत्तास्थानानितत्रैकोननवतिः प्रागुक्तस्वरूपं नैरयिकमधिकृत्य, द्विनवतिरष्टाशीतिश्च देव-नैरयिक-मनुज-धिकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-एकेन्द्रियानधिकृत्य, पडशीतिरशीतिश्च एकेन्द्रिय विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्यानधिकृत्य । अष्टसप्ततिस्तु न सम्भवति, यतः सप्तविंशत्युदयस्तेजो-वायुवर्जानामेकेन्द्रियाणामात-उद्योतान्यतरसहितानां भवति, नारकादीनां वा, न च तेषामष्टसप्ततिः, तेषा - मवश्यं मनुष्यद्विकबन्धसम्भवात् । एतान्येव पञ्च सत्तास्थानान्यष्टाविंशत्युदयेऽपि तत्रैकोननवतिर्द्विनवतिरष्टाशीतिश्च प्रागिव भावनीया, षडशीतिरशीतिश्च विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियमनुष्यानधिकृत्य वेदितव्या । एवमेकोनत्रिंशदुदयेऽप्येतान्येव पश्च सत्तास्थानानि भावनीयानि । त्रिंशदुदये चत्वारि तद्यथा — द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः । एतानि विकले - न्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्यानधिकृत्य वेदितव्यानि । एकोननवतिस्तु न प्राप्यते, यतः सा वेदसम्यग्दृष्टेः सतो बद्धतीर्थकरनाम्नो मिथ्यात्वं गतस्य नैरयिकस्य प्राप्यते, न च नैरयिकस्य त्रिंशदुदयोऽस्ति । एकत्रिंशदुदयेऽप्येतान्येव चत्वारि, तानि च विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियानधिकृत्य द्रष्टव्यानि । सर्वसङ्ख्यया मिथ्यादृष्टेरे कोनत्रिंशतं बध्नतः पञ्चचत्वारिंशत् सत्तास्थानानि । या तु देवगतिप्रायोग्या एकोनत्रिंशत् सा मिथ्यादृष्टेन बन्धमायाति कारणं प्रागेवोक्तम् | मनुष्य- देवगतिप्रायोग्यवर्जा शेषां त्रिंशतं विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियप्रायोग्यां बध्नतः २५६ १ छा० मुद्रिव्य वेदितव्या, भष्ट० ॥ २ इत उर्ध्वम् छा० म० ग्रन्थाग्रम् २६३० ।। ३ सं० सं० १ सं० २ त०म० छा० सा मिथ्यादृष्टेः स० ॥

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602