________________
२४२
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[गाथाः "दो चउसु" त्ति 'चतुषु' अपूर्वकरणा-ऽनिवृत्तिवादर-सूक्ष्मसम्पराय-उपशान्तमोहरूपेषु गुणस्थानकेपूपशमश्रेणिमधिकृत्य प्रत्येकं द्वौ द्वौ भङ्गो, तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्ता, एष विकल्पः परभवायुवेन्धकालात् पूर्वम् , अथवा मनुष्यायुप उदयो मनुष्य-देवायुषी सती, एष विकल्पः परभवायुर्वन्धोत्तरकालम् , एते ह्यायुर्न बध्नन्ति, अतिविशुद्धत्वात् । पूर्वबढे चायुपि उपशमश्रेणिं प्रतिपद्यन्ते देवायुष्येव नान्यायुपि । तदुक्तं कर्मप्रकृती
'तिसु आउगेसु बढेसु जेण सेटिं न आरुहइ ।। (गा० ३७५) तत उपशमश्रेणिमधिकृत्य एतेषु द्वौ द्वावेव भङ्गो । पूर्ववद्धायुष्कास्तु क्षपकश्रेणिं न प्रतिपद्यन्ते, तत उपशमश्रेणिमधिकृत्येत्युक्तम् । क्षपकश्रेण्यां त्वेतेषामेकेक एव भङ्गः, तद्यथा-मनुष्यायुप उदयो मनुष्यायुषः सत्तेति । "तीसु एक्क" ति 'त्रिपु' क्षीणमोह-सयोगिकेवलि-अयोगिरूपेषु प्रत्येकमेकैको भङ्गः, तद्यथा-मनुष्यायुप उदयो मनुष्यायुषः सत्ता । शेषा न सम्भवन्ति । तदेवमायुपो गुणस्थानकेषु भङ्गा निरूपिताः, सम्प्रति मोहनीयं प्रत्याह
मोहं परं वोच्छं ।। ४१ ॥ अतः परं 'मोह' मोहनीयं वक्ष्ये ।। ४१ ॥
गुणठाणगेसु अहसु, एक्केक्कं मोहबंधठाणेसु । पंचानियटिठाणे, बंधोवरमो पर तत्तो ॥ ४२ ।।
मोहनीयसत्कबन्धस्थानेषु मध्ये एकैकं बन्धस्थानं मिथ्यादृष्टयादिपु अष्टसु गुणस्थानकेषु भवति, तद्यथा-मिथ्यादृष्टाविंशतिः सासादनस्यैकविंशतिः सम्यग्मिथ्यादृप्टेरविस्तसम्यग्दृप्टेश्च प्रत्येक सप्तदश सप्तदश. देशविरतस्य त्रयोदश, प्रमत्ता-ऽप्रमत्ता-ऽपूर्वकरणानां प्रत्येक नव नव । एतानि च द्वाविशत्यादीनि नवपर्यन्तानि बन्धस्थानानि प्रागेव सप्रपञ्चं भावितानीति न भूयो भाव्यन्ते, विशेषाभावात् । केवलमप्रमत्ता ऽपूर्वकरणयोभङ्ग एकेक एव वक्तव्यः, अरति-शोकयोर्वन्धस्य प्रमत्तगुणस्थानके एव व्यवच्छेदात् । प्राक् च प्रमत्तापेक्षया नवकवन्धस्थाने द्वो भङ्गो दर्शितौ । "पंचानियट्टिठाणे" अनिवृत्तिवादरसम्परायगुणस्थान के पश्च बन्धस्थानानि, तद्यथापञ्च चतत्रः तिस्रः द्वे एका च प्रकृतिरिति । 'ततः' अनिवृत्तिस्थानात् परं सूक्ष्मसम्परायादी 'बन्धोपरमः' बन्धाभावः ।। ४२ ।।
सम्प्रत्युदयस्थानप्ररूपणार्थमाह
१ विष्वायुष्केषु बद्धषु येन श्रेणि न मारोहति ॥२ सं ० १ त० म० व्योगिकेवलिरू । ३ सं १ त० म० छ। प्रागुक्त प्रम० ।।