________________
२४३
४१-४५ ]
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् । सत्ताइ दस उ मिच्छे, सासायणमीसए नवुक्कोसा । छाई नव उ अविरए, देसे पंचाइ अद्वैव ॥ ४३ ।। विरए खओवसमिए, चउराई सत्त छच्चऽपुव्वम्मि । अनियटिबायरे पुण, इक्को व दुवे व उदयसा ।। ४४ ।। एग सुहुमसरागो, वेएइ अवेयगा भवे सेसा ।
भंगाणं च पमाणं, पुवुद्दिद्वेण नायव्वं ।। ४५ ।। मिथ्यादृष्टेः सप्तादीनि दशपर्यन्तानि चत्वार्युदयस्थानानि भवन्ति, तद्यथा-सप्त अष्टौ नव दश । तत्र मिथ्यात्वम् , अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, हास्य-रति-युगला-ऽरति-शोक युगलयोरन्यतरद् युगलमित्येतासां सप्तप्रकृतीनामुदयो ध्रवः, अत्र चतुर्भिः कपाटस्त्रिभिर्वेदाभ्यां युगलाभ्यां भङ्गाश्चतुर्विंशतिः । तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा अनन्तानुबन्धिनि वा प्रक्षिप्ते अष्टानामुदयः, अत्र भयादौ प्रत्येकमेकैका चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव सप्तके भय-जुगुप्पयोरथवा भया-ऽनन्तानुवन्धिनोर्यद्वा जुगुप्सा-ऽनन्तानुवन्धिनोः प्रक्षिप्तयोर्नवानामुदयः, अत्राप्येककस्मिन् विकल्प भङ्गानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः । तथा तम्मिन्नेव सप्तके भय-जुगुप्सा-ऽनन्तानुबन्धिषु युगपत् प्रक्षिप्तेषु दशानामुदयः, अत्रेका भङ्गकानां चतुर्विंशतिः । सर्वसङ्ख्यया मिथ्यादृष्टावष्टो चतुर्विंशतयः । सासादने मिश्रे च सप्तादीनि 'नवोत्कर्माणि' नवपर्यन्तानि त्रीणि त्रीण्युदयस्थानानि, तद्यथा-सप्त अष्टौ नव । तत्र सासादने अनन्तानुवन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद् युगलमित्येतासां सप्तप्रकृतीनामुदयो ध्रुवः, अत्र प्रागिवैका भङ्गकानां चतुर्विंशतिः । ततो भये वा जुगुप्सायां वा प्रक्षिमायां अष्टोदयः, अन्न द्वे चतुर्विंशती भङ्गकानाम् । भय-जुगुप्सयोस्तु प्रक्षिप्तयोर्नवोदयः, अत्रैका भङ्गकानां चतुर्विंशतिः । सर्वसङ्ख्यया सासादने चतस्रश्चतुर्विंशतयः । मिश्रेऽनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद् युगलं, मिश्रमिति सप्तानां प्रकृतीनामुदयो ध्रुवः, अत्रेका चतुर्विंशतिभङ्गकानाम् । ततो भये वा जुगुप्सायां वा प्रक्षिप्तायामष्टोदयः, अत्र व भङ्गकानां चतुर्विंशती । भय-जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोनवानामुदयः, अत्रेका चतुर्विशतिर्भङ्गकानाम् । सर्वसङ्ख्यया मिश्रेऽपि चतस्रश्चतुर्विंशतयः ।
"छाई नव उ अविरए" त्ति 'अविरते' अविरतसम्यग्दृष्टौ पडादीनि नवपर्यन्तानि चत्वायु - दयस्थानानि भवन्ति, तद्यथा-पट् सप्त अष्टौ नव । तत्रानन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधा