________________
२४४
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[गाथा दिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद् युगलमिति पण्णां प्रकृतीनामुदयोऽविरतस्य क्षायिकसम्यग्दृष्टेरोपशमिकसम्यग्दृष्टेर्वा ध्रुवः, अत्रैका चतुर्विंशतिर्भङ्गकानाम् । ततो भये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते सप्तानामुदयः, अत्र तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव षट्के भय-जुगुप्सयोभय-वेदकसम्यक्त्वयोजुगुप्सा-वेदकसम्यक्त्वयोवा युगपत् प्रक्षिप्तयोरष्टानामुदयः, अत्रापि तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव षट्के भय-जुगुप्सा-वेदकसम्यक्त्वेषु युगपत् प्रक्षिप्तेषु नवानामुदयः, अत्रैका चतुर्विंशतिर्भङ्गकानाम् । सर्वसङ्ख्ययाऽविरत. सम्यग्दृष्टावष्टो चतुर्विंशतयः ।
"देसे पंचाइ अढे व" त्ति 'देशे' देशविरते पश्चादीनि अष्टपर्यन्तानि चत्वायुदयस्थानानि, तयथा-पञ्च पट् सप्त अष्टौ। तत्र प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमो द्वौ क्रोधादिकौ, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद् युगलमिति पश्चानां प्रकृतीनामुदयो देशविरतस्य क्षायिकसम्यग्दृष्टेरोपशमिकसम्यग्दृष्टेर्वा भवतिः अत्रेका भङ्गकानां चतुर्विशतिः । ततो भये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते पण्णामुदयः, अत्र तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव पञ्चके भय-जुगुप्सयो यद्वा जुगुप्सा-वेदकसम्यक्त्वयोरथवा भय-वेदकसम्यक्त्वयोयुगपत् प्रक्षिप्तयोः सप्तानामुदयः, अत्रापि तिस्त्रश्चतुर्विंशतयः । तथा तस्मिन्नेव पञ्चके भयजुगुप्सा-वेदकसम्यक्त्वेषु युगपत् प्रक्षिप्तेष्वष्टानामुदयः; अत्रैका चतुर्विंशतिर्भङ्गकानाम् । सर्वसङ्ख्यया देशविरतेऽष्टौ चतुर्विंशतयः ॥४३।।
तथा विग्ते क्षायोपशमिके' प्रमत्ते-ऽप्रमत्ते चेत्यर्थः, विरतो हि श्रेणेरधम्ताद्वर्तमानः आयोपशमिको विरत इति व्यवहियते । ततश्च प्रमत्तेऽप्रमत्ते च प्रत्येकं चतुरादीनि सप्तपर्यन्तानि चत्वारि चत्वायु दयस्था नानि, तद्यथा-चतस्रः पञ्च षट् सप्त । तत्र क्षायिकसम्यग्दृष्टेगेपशमिकसम्यग्दृष्टेर्वा प्रमत्तस्याप्रमत्तस्य च प्रत्येकं संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद् युगलमिति चतसृणां प्रकृतीनामुदयः, अत्रैका चतुर्विंशतिर्भङ्गाकानाम् । ततो भये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते पञ्चानामुदयः, अत्र तिस्रश्चतुर्विंशतयो भङ्गकानाम् । तथा तस्मिन्नेव चतुके भय-जुगुप्सयोर्यदि वा जुगुप्सावेदकसम्यक्त्वयोरथवा भय-वेदकसम्यक्त्वयोयुगपत् प्रक्षिप्तयोः पणामुदयः, अत्रापि तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव चतुष्के भय-जुगुप्सा-वेदकसम्यक्त्वेषु युगपत् प्रक्षिप्तेषु सप्तानामुदयः, अत्रेका चतुर्विंशतिर्भङ्गकानाम् । सर्वसङ्ख्यया प्रमत्तस्याप्रमत्तस्य च प्रत्येकमष्टावष्टी चतुर्विंशतयः ।
१ सं० २ यदि वा जु॥ २ मुद्रि० छा० नानि भवन्ति, तद्य० ॥