________________
४३-४६] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् ।
२४५ "छच्चऽपुवम्मि" अपूर्वकरणे चतुरादीनि षट्पर्यन्तानि त्रीण्युदयस्थानानि, तद्यथाचतस्रः पञ्च षट् । तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोमुगलयोरन्यतरद् युगलमित्येतासां चतसृणां प्रकृतीनामुदयोऽपूर्वकरणे ध्रुवः, अत्रेका चतुर्विशतिभेगकानाम् । ततो भये वा जुगुप्सायां वा प्रक्षिप्तायां पञ्चानामुदयः; अत्र द्वे चतुविंशती भङ्गकानाम् । भय-जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोः पण्णामुदयः, अत्रेका भङ्गकानां चतुर्विंशतिः । सर्वसङ्ख्ययाऽपूर्वकरणे चतस्रश्चतुर्विंशतयः ।
अनिवृत्तिबादरे पुनरेको हो वा 'उदयांशो' उदयभेदो उदयस्थाने इत्यर्थः । तत्र चतुर्णा संज्वलनानामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेद इति द्विकोदयः, अत्र त्रिभिर्वदे श्चतुभिः संज्वलनादश भेदाः । ततो वेदोदयव्यवच्छेदे एकोदयः, स च चतुर्विध. अन्धे त्रिविधवन्धे द्विविधबन्धे एकविधवन्धे च प्राप्यते । तत्र यद्यपि प्राक् चतुर्विधवन्धे चत्वारः त्रिविधवन्धे त्रयः द्विविधबन्धे द्वो एकविधवन्धे एक इति दश भङ्गाः प्रतिपादिताः तथाप्यत्र सामान्येन चतुः-त्रि द्वि-एकबन्धापेक्षया चत्वार एव भङ्गा विवक्ष्यन्ते ।।४४।।
____ "एगं सुहमसरागो वेएइ" ति सूक्ष्मसम्परायो चन्धाभावे एक किट्टीकृतसंज्वलनलोभं वेदयते, ततोऽत्रैक एव भङ्गः । एवमेकोदयभङ्गाः सईसङ्ख्यया पञ्च । तथा 'शेषाः' उपरितना उपशान्तमोहादयः सर्वऽप्यवेदकाः ।
'भंगाणं च पमाणं" इत्यादि । अत्र मिथ्यादृष्टयादिपु गुणस्थानकेषु उदयस्थानभङ्गकानां प्रमाणं 'पूर्वोदिष्टेन' पूर्वोक्तेन प्राक 'सामान्यनिर्दिष्टमोहनीयोदयस्थानचिन्ताधिकारोक्तेन प्रकारेण ज्ञातव्यम् ।।४।। ____ सम्प्रति मिथ्यादृष्टयादीनधिकृत्य दशादिष्वेकपर्यवसानेषु उदयस्थानेषु भङ्गसङ्ख्यानिरूप. णार्थमाह
एक्क छडेक्कारेकारसेव एक्कारसेव नव तिन्नि ।
एए चउवीसगया, बार दुगे पंच एक्कम्प्रि ॥४६।। इह दशादीनि चतुरन्तानि उदयस्थानान्यधिकृत्य यथासङ्खयमेकादिसङ्खयापदयोजना कर्तव्या । सा चैवम् -दशोदये एका चतुर्विंशतिः । नवोदये पद-तत्र मिथ्यादृष्टो तिस्रः, सासादने मिश्रेऽविरते च प्रत्येकमेकेका । अष्टोदये एकादश-तत्र मिथ्यादृष्टो अविरते च प्रत्येक तिम्रः तिस्रः, सासादने मिश्रे च प्रत्येक द्वे द्वे, देशविरते चैका । सप्तोदये एकादश-तत्र मिथ्यादृष्टो सासादने मिश्रे प्रमत्तेऽप्रमचे च प्रत्येकमेकेका, अविरते देशविरते च प्रत्येकं तिस्र
१ मुद्रि० मान्येनोक्तमोह। छा० °मान्योक्तमोह ॥