________________
२४६ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथा स्तिस्रः । षड्दये एकादश-तत्राविरतसम्यग्दृष्टो अपूर्वकरणे च प्रत्येकमेकैका, देशविरते प्रमत्तेऽप्रमत्ते च प्रत्येकं तिस्रस्तिस्रः । पञ्चकोदये नव-तत्र देशविरते एका, प्रमत्तेऽप्रमत्ते च प्रत्येकं तिस्रस्तिस्रः, अपूर्वकरणे द्वे । चतुरुदये तिस्रः-प्रमत्तेऽप्रमत्तेऽपूर्वकरणे च प्रत्येकमेकेका । 'एते' अनन्तरोक्ता एकादिकाः सङ्खयाविशेषाः 'चतुर्विशतिगताः' चतुर्विंशत्यभिधायकाः, एता अनन्तरोक्ताश्चतुर्विंशतयो ज्ञातव्या इत्यर्थः । एताश्च सर्वसङ्ख्यया द्विपञ्चाशत् ५२ । 'द्विके' द्विकोदये भङ्गा द्वादश, एकोदये पञ्च, एते च प्रागेव भाविताः ।। 'सम्प्रत्येतेषामेव भङ्गानां विशिष्टतरसङ्ख्यानिरूपणार्थमाह
वारसपणसट्ठसया, उदयविगप्पेहिं मोहिया जीवा । इह दशादिषु चतुःपर्यवसानेपु उदयस्थानेषु भङ्गकानां द्विपञ्चाशत चतुर्विंशतयो लब्धाः । ततो द्विपञ्चाशत् चतुर्विंशत्या गुण्यते, गुणितायां च सत्यां द्विकोदयभङ्गा द्वादश एकोदय भङ्गाः पञ्च प्रक्षिप्यन्ते, ततो द्वादश शतानि पञ्चषष्ट्यधिकानि १२६५ भवन्ति । एतेरुदयविकल्पेर्यथायोगं सर्वे संसारिणो जीवाः 'मोहिताः' मोहमापादिता विजेयाः ।। सम्प्रति पदसङ्खयानिरूपणार्थमाह
चुल'सीईमत्तत्तरिप यविंदसएहिं विन्नेया ॥ ५ ।। इह पदानि नाम-मिथ्यात्वम् अप्रत्याख्यानक्रोधः प्रत्याख्यानावरणक्रोध इत्येवमादीनि, ततो वृन्दानां-दशायुदयस्थानरूपाणां पदानि पदवृन्दानि, आर्पत्वाद् राजदन्तादिषु मध्ये पाठाभ्युपगमाद्वा वृन्दशब्दस्य परनिपातः, तेषां शतेः सप्तसप्तत्यधिकचतुरशीतिशतसङ्खय:८४७७मोहिताः संसारिणो जीवा विज्ञेयाः, एतावत्सङ्ख्याभिः कर्मप्रकृतिभिर्यथायोगं मोहिता जीवा ज्ञातव्या इत्यर्थः । अथ कथं सप्तसप्तत्यधिकानि चतुरशीतिशतानि ८४७७ पदानां भवन्ति ? उच्यतेइह दशोदये दश पदानि दश प्रकृतय उदयमागता इत्यर्थः, एवं नवोदयादिष्वपि नवादीनि पदानि भावनीयानि । ततो दशोदय एको दशभिगुण्यते, नवोदयाः पड् नवभिः, अष्टोदया एकादश अष्टभिः, सप्तोदया एकादश सप्तभिः, षडदया एकादश पभिः, पञ्चकोदया नव पञ्चभिः, चतुरुदयास्त्रयश्चतुर्भिः, गुणयित्वा चैते सर्वेऽप्येकत्र मील्यन्ते, जातानि द्विपञ्चाशद
१ "एएसि उदयविगप्पपयवंद निरूवणथमन्तर्भाष्यगाथा-बारसपणमसया०' इत्यनेन सप्ततिकाचणिगतावतरणेन गार्थयं चूणिकृताऽन्तर्भाष्यगाथातयोपात्ताऽपि टीकाकारैर्नान्तर्भाष्यगाथात्वेनोल्लिखिता, तथाप्यस्माभिश्चूणिमनुसृत्यान्तर्भाष्यगाथात्वेनोपस्थापितेय गाथा।
सं० सं० १ सं. २ 'सर्वसं ॥ ३ सं०१०सीइसत्तसत्त । म० सीइसत्तहत्त ॥ ४ सं० सं०२ यवंद ॥ ५ स० १ त० म० °दयोऽत्रैकः स दश° सं० । २ सं० छा० °दयो दश ।।