SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ४६-४७ ] चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् । २४७ धिकानि श्रीणि शतानि ३५२ । एतानि च चतुर्विंशतिगतानि प्राप्यन्ते इति चतुर्विशत्या गुण्यन्ते । ततो द्विकोदयपदानि चतुर्विंशतिः एकोदयपदानि च पञ्च प्रक्षिप्यन्ते ततस्तेषु प्रक्षिप्तेषु यथोक्त पङ्खयान्येव पदानां शतानि ८४७७ भवन्ति ।। सम्प्रति मिथ्यादृष्टयादिषु प्रत्येकमुदयभङ्गनिरूपणार्थ भाष्यकृदन्तर्गाथामाह अट्ठग चउ चउ चउरट्ठगा य चउरो य होंति चउवीसा । मिच्छाइ अपुवंता, बारस पणगं च अनिय? ॥ ६ ॥ मिथ्यादृष्टयादयोऽपूर्व करणान्ता अष्टादिचतुर्विंशतयो भवन्ति । किमुक्तं भवति ? -मिथ्यादृष्टयादिवपूर्वकरणपर्यवसानेपु गुणस्थानकेषु चतुर्विंशतयो यथा सङ्ख्य अष्टादिसङ्ख्या भवन्ति । तत्र मिथ्यादृष्टावष्टौ, सासादने चतस्रः, मिश्रे चतस्रः । ‘‘चउरट्ठग" त्ति अविरतादिपु अप्रमत्तपर्यवसानेषु चतुपु गुणस्थानकेषु प्रत्येकमष्टावष्टौ । अपूर्वकरणे चतन्त्रः, एताश्च प्रागेव भाविताः। 'अनिवृत्ती' अनिवृत्तिवादरे द्विकोदये द्वादश भङ्गाः एकोदये च पञ्च । चशब्दोऽनिवृत्तिवादरे एकोदये चत्वार एकः सूक्ष्मसम्पराय इति विशेषं द्योतयति ॥४६॥ सम्प्रत्येतेपामेवोदयभङ्गानामुदयपदानां च योगोपयोगादिभिगुणनार्थमुपदेशमाह जोगोवओगलेसाइएहिं गुणिया हवंति कायव्वा । जे जत्थ गुण हाणे, हवंति ते तत्थ गुणकारा ॥४७।। मिथ्यादृष्टयादिपु गुणस्थानकेषु ये योगोपयोगादयस्तै रुदयभङ्गा गुणिताः कर्त्तव्याः, तेन्दयभङ्गा गुणयितव्या इत्यर्थः । कतिसङ्ख्य गुणयितव्याः ? इत्यत आह--ये योगादयो यस्मिन् गुणस्थानके यावन्तो भवन्ति तावन्तस्तस्मिन् गुणस्थानके गुणकाराः, तेस्तावद्भिस्तम्मिन गुणस्थानके उदयभङ्गा गुणयितव्या इत्यर्थः । तत्र प्रथमतो योगगुणनभावना क्रियते-- इस मिथ्या दृष्टयादिषु सूक्ष्मसम्परायपर्यवसानेपु सर्व सङ्ख्ययोदयभङ्गाः पञ्चपष्टयधिकानि द्वादश शतानि १२६५ । तत्र वाग्योगचतुष्टय-मनोयोगचतुष्टय औदारिककाययोगाः सर्ववपि मिथ्यादृष्टयादि दशामु गुणस्थानकेषु सम्भवन्तीति ते नवभिगुण्यन्ते, ततो जातान्येकादश सहस्राणि त्रीणि च शतानि पञ्चाशीत्यधिकानि ११३८५ ! तथा मिथ्यादृष्टे क्रियकाययोगेऽप्टापि चतुर्विंशतयः प्राप्यन्ते, वेक्रियमित्रे औदारिकमि कार्मणकाययोगे च प्रत्येकं चतम्रश्चतस्रः, एताश्च या अनन्तानुबन्ध्युदयसाहितास्ता एव द्रष्टव्याः । यास्त्वनन्तानुवन्ध्युदशहितास्ता अत्र न प्राप्यन्ते । १ सं० १ त० म० थायोगं अ" || २ सं० सं०२ छा० मुद्रि० ठाणेसु होति ते त° ॥ ३ सं० स० १ सं०६ त० "संख्योदय ।। ४ सं० स० २ °F गुण ॥ ५ सं० १ स. २० म. "ति नवमि ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy