________________
३४८ मलयगिरिमहर्पिविनिर्मितविवृत्युपेत
[ गाथा किं कारणम् ? इति चेद् उच्यते-इह येन पूर्व वेदकसम्यग्दृष्टिना सता अनन्तानुवन्धिनो विसंयोजिता, विसंयोज्य च परिणामपरावृत्त्या सम्यक्त्वात् प्रच्युत्य मिथ्यात्वं गतेन भूयोऽप्यनन्तानुवन्धिनो बन्दुमारभ्यन्ते तस्यैव मिथ्यादृष्टेबन्धावलिकामानं कालं यावदनन्तानुवन्ध्युदयो न प्राप्यते, न शेषस्यः अनन्तानुबन्धिनश्च विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यते जघन्यतोऽप्यन्तमुहूर्तावशेषायुष्क एव, अनन्तानुबन्ध्युदयरहितस्य मिथ्यादृष्टेः कालकरणप्रति. षेधात् । तथोक्तम् -
'कुणइ जं न सो कालं । इति । ततस्तस्मिन्नेव भवे वर्तमानो मिथ्यात्वप्रत्ययेन भूयोऽप्यनन्तानुबन्धिनो बध्नाति, बन्धावलिकातीतांश्च प्रवेदयते । ततोऽपान्तरालगतो वर्तमानस्य भवान्तरे वा प्रथमत उत्पन्नस्य मिथ्यादृष्टेः सतोऽनन्तानुवन्ध्युदयरहिता उदयविकल्पा न प्राप्यन्ते । अत्र च कार्मणकाययोगोऽपान्तरालगतो औदारिकमिश्रकाययोग-बैंक्रियमिश्रकाययोगौ च भवान्तरे उन्पद्यमानस्य, ततः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतस्त्रश्चतुर्विंशतयोऽनन्तानुवन्ध्युदयरहिता न प्राप्यन्ते । 'बैंक्रियमिश्रकाययोगो भवान्तरे प्रथमत एवोत्पद्यमानस्य भवति' इति यदुक्तं तद् बाहुल्यमाश्रित्योक्तम् , अन्यथा तिर्य-मनुष्याणामपि मिथ्यादृशां वैक्रियकारिणां वैक्रियमिश्रमवाप्यत एव परं चूर्णिकृता तद् नात्र विवक्षितमित्यस्माभिरपि न विवक्षितम् , एवमुत्तरत्रापि चूर्णिकारमार्गानुसरणं परिभावनीयम् । तथा सासादनस्य कार्मणकाययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे च प्रत्येकं चतस्रश्चतस्रश्चतुर्विंशतयः, सम्यग्मिथ्यादृष्टे क्रियकाययोगे चतस्रः, अविरतसम्यग्दृष्टे क्रियकाययोगेऽष्टो, देशविरतस्य वैक्रिये बैंक्रियमिश्रकाययोगे च प्रत्येकमष्टावष्टो, प्रमत्तसंयतस्यापि वैक्रिये वैक्रियमिश्रे च प्रत्येकमष्टावष्टौ, अप्रमत्तसंयतस्य वैकि यकाययोगेऽष्टी, सर्वसङ्ख्यया चतुरशीतिश्चतुर्विंशतयः । चतुरशीतिश्चतुर्विशत्या गुणिता जातानि षोडशाधिकानि विंशतिशतानि २०१६, तानि पूर्वराशो प्रक्षिप्यन्ते । तथा सासादनस्य क्रियमिश्रे वर्तमानस्य ये चत्वारोऽप्युदयस्थानविकल्पाः, तद्यथा-सप्तोदय एकविधः अष्टोदयो द्विविधो नवोदय एकविधः, अत्र नपुसकवेदो न लभ्यते, वैक्रिय काययोगिषु नपुसकवेदिपु मध्ये सासादनस्योत्यादाभावत् । ये चाविरतसम्यग्दृष्टय क्रियमिश्रे कार्मण काययोगे च प्रत्येकमष्टावष्टौ उदयस्थानविकल्पा 'एषु स्त्रीवेदो न लभ्यते, बैंक्रियकाययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दृप्टेरुत्पा
१ करोति यद् न स कालम ।। २ सं० सं० २ छा० मुद्रि० अथ च ।। ३ सं० सं० १ सं० २ त० म० व्ययो०।। ४ सं० त०म० न्यमिश्रका० ।। ५ स० त० म० ) वर्तमानस्य काम ।। ६सं. त० म० एतेषु ॥