________________
४३ ]
चन्द्रमित्त कृतं सप्ततिका प्रकरणम्
दाभावात् । एतच्च प्रायोवृत्तिमाश्रित्योक्तम्, अन्यथा कदाचिद् "स्त्रीवेदिष्वपि मध्ये तदुत्पादो भवति । उक्तं च चूर्णौ
-
5
हज्ज इथियगेसु वि ।
इति ।
प्रमत्तसंयतम्य आहारककाययोगे आहारकमिश्रकाययोगे च अप्रमत्तसंयतस्य आहारककाययोगे ये प्रत्येकमष्टावष्टावुदयस्थानविकल्पास्तेऽपि स्त्रीवेदरहिता वेदितव्याः, आहारकं हि चतुर्दशपूर्विणो भवति, “आहारं चोदसुपुब्विणो उ” इति वचनात् न च स्त्रीणां चतुर्दशपूर्वाचिगमः सम्भवति सूत्रे प्रतिषेधात् । तदुक्तम्-
3
" तुच्छा गारवबहुला, चलिंदिया दुब्बला य धीईए ।
इ अइसेसज्झयणा, भूयावाओ य नो थीणं ।। ( वृ० कल्प० गा० १४६ ) भूतवाद नाम दृष्टिवादः । एते सर्वेप्युदयस्थानविकल्पाः सर्वसङ्खय्या चतुश्चत्वारिंशत् ४४ । एतेषु चोक्तप्रकारेण द्वौ द्वावेव वेदौ लब्धौ ततः प्रत्येकं पोडश पोडश भङ्गाः ततश्चतुस्वत्वारिंशत पोडशभिगुण्यते जातानि सप्त शतानि चतुरधिकानि ७०४, तानि पूर्वराशौ प्रक्षियन्ते । तथाऽविरतसम्यग्दृप्टेरो दारिक मिश्रकाययोगे येऽष्टादयस्थानविकल्पास्ते पुवेदसहिता एव प्राप्यन्ते, न स्त्रीवेद-नपुंसक वेदसहिताः, तिर्यग् मनुष्येषु स्त्रीवेद-नपुंसकवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात् । एतच्च प्राचुर्यमाश्रित्योक्तम्, तेन मल्लिस्वामिन्यादिभिर्न व्यभिचारः । एतेषु चैकेन वेदेन प्रत्येकमष्टावष्टावेव भङ्गा लभ्यन्ते ततोऽष्टौ अष्टभिर्गुण्यन्ते जाताश्चतु:प: ६४, सा च पूर्वराशौ प्रक्षिप्यते, तत आगतानि चतुर्दश सहस्राणि शतं चैकोनसप्तत्यधिकम् १४१६९। एतावन्तो मिथ्यादृष्टयादिषु सूक्ष्मसम्पराय पर्यवसानेषु गुणस्थानकेषु उदभङ्गा योगगुणिताः प्राप्यन्ते । तदुक्तम्
' चउदस य सहस्साई, सयं च गुणहत्तरं उदयमाणं १४१६९ । सम्प्रति पदवृन्दानि योगगुणितानि भाव्यन्ते । तत्रोदय पदप्ररूपणार्थमियमन्तर्भाष्यगाथा"अड्डड्डी बत्तीसं, बत्तीसं सहिमेव बावन्ना ।
चोयालं चोयाल, वीसा वि य मिच्छमाईसु ॥ ७ ॥
32
२४९
१ सं० १ तं० म० छा० ० स्त्रीवेदेष्व० ।। २ कदाचिद् भवेत् स्रीवेद केष्वपि ॥ ३ आहारकं चतुर्दशपूर्वि - स्तु ॥ ४ तुच्छा गौरवबहुलाः चलेन्द्रिया दुर्बलाश्च धृत्या । इत्यतिशेषाध्ययनाः भूतवादश्च नो स्त्रीणाम् ॥ ५. मुद्रि० पु अपूर्व करणप० ।। ६ चतुर्दश च सहस्राणि शतं च एकोनसप्ततमुदयमानम् ॥ ७ गाथेयं वृत्तिकृद्भिरन्तर्भाष्यगाथात्वेनोल्लिखिताऽपि चूर्णिकृद्भिर्नान्तर्भाष्यगाथात्वेन निदिष्टा ॥