________________
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा:
मिथ्यादृष्टयादिष्व पूर्वकरण पर्यवमानेषु यथासङ्ख्यमष्टषष्ट्यादिसङ्ख्यानि उदयपदानि भवन्ति, तथाहि - मिथ्यादृष्टौ चत्वायुदयस्थानानि तद्यथा - सप्त अष्टौ नव दश । तत्र दशोदय एको दशभिगु ण्यते-जाता दशः नवोदयास्त्रयो नवभिः - जाता सप्तविंशतिः अष्टोदयास्त्रयोऽष्टभिः, जाता चतुर्विंशतिः सप्तोदयश्चैकः सप्तभिः, जाताः सप्त सर्वसङ्ख्यया अष्टषष्टिः ६८ । एवं द्वात्रिंशदादीनामपि उदयपदानां भावना कर्तव्या । सर्वसङ्ख्यया त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२ । एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते जातानि अष्टचत्वारिंशदधि कानि चतुरशीतिशतानि ८४४८ । द्विकोदया द्वादश द्वाभ्यां गुण्यन्ते, जाता चतुर्विंशतिः, एकादयपदानि पञ्च सर्वमङ्ख्या एकोनविंशत् । सा च पूर्वराशौ प्रक्षिप्यते, ततो जातानि सप्तसप्तत्यधिकानि चतुरशीतिशतानि ८४७७ । एतानि वाग्योगचतुष्टय मनोयोगचतुष्टय-औदारिककाययोगसहितानि प्राप्यन्ते इति नवभिगु ण्यन्ते, जातानि षट्सप्ततिसहस्राणि द्वे शते त्रिन वत्यधिके ७६२९३ । ततो वैक्रियकाययोगे मिथ्यादृष्टेरष्टषष्टिसङ्ख्यानि उदयपदानि एतानि चप्राग्वद्भावनीयानि । वैक्रियमिश्र औदारिकमिश्रे कार्मणकाययोगे च प्रत्येकं पत्रिंशत पदत्रिंशदुदयपदानि । वैकियमित्रादौ हि उदयपदान्यनन्तानुबन्ध्युदयसहितान्येव प्राप्यन्ते, न शेपाणि, कारणं प्रागेवोक्तम्, ततः पट्त्रिंशत् पत्रिंशदेव भवन्ति । तथाहि - एकोऽष्टोदयो
1
नवोदय एक दशोदयोऽनन्तानुबन्धिसहितः प्राप्यते । ततोऽष्टोदय एकोऽष्टभिगुण्यते, तत्राष्ट पदानि सन्तीति कृत्वा ततो जाता अष्टौ नवोदयौ द्वौ नवभि:, जाता अष्टादश, दशोदय एको दशभिः, जाता दश, सर्वसङ्ख्यया पट्त्रिंशत् । एवमन्यत्रापि भावना स्वधिया कर्तव्या । सासादनस्य वैक्रियकाययोगे औदारिक मिश्र कार्मणकाययोगे च द्वात्रिंशद् द्वात्रिंशत् । सम्यग्मिथ्यादृष्ट्वें क्रियकाययोगे द्वात्रिंशत् | अविरतसम्यग्दृष्टेवें क्रियकाययोगे षष्टिः ६० । देशविरतस्य वैक्रिये वैक्रियमिश्रकाययोगे चं प्रत्येकं द्विपञ्चाशद् द्विपञ्चाशत् । प्रमत्तसंयतस्य वैक्रिये वैक्रियमिश्रे च प्रत्येकं चतुश्चत्वारिंशत् चतुश्चत्वारिंशत् । अप्रमत्तसंयतस्य वैक्रियकाययोगे चतुश्चत्वारिंशत् । सर्वसङ्ख्यया पट् शतानि ६०० । एतानि च चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, जातानि चतुर्दश सहस्राणि चत्वारि शतानि १४४०० । एतानि पूर्वराशौ प्रक्षिप्यन्ते । तथा सामादनस्य वैक्रियमिश्र द्वात्रिंशदुदयपदानि एतेषु नपुंसकवेदो न लभ्यते, युक्तिरत्र प्रागेवोक्ता । अविरतसम्यग्दृष्टेवें कि ' यमिश्रे कार्मणकाययोगे च प्रत्येकं षष्टिः षष्टिः, अत्र स्त्रीवेदो न लभ्यते, कारणं प्रागेवोक्तम् । प्रमत्तसंयतस्य आहारके आहारकमिश्रे च प्रत्येकं चतुश्चत्वारिंशत् चतुश्चत्वारिंशत् । अप्रमत्तसंयतस्याहारक
१ सं० १ ० म० छा० " बन्ध्युदयस° ॥ २ सं० १ ० म० छा० ° क्रिये वैक्रियमि ||
२५०