________________
४७ ]
चन्द्रर्षिमहत्तर कृतं सप्रतिकाप्रकरणम्
२५१
काययोगे चतुश्चत्वारिंशत्, अत्रापि स्त्रीवेदो न लभ्यते, 'युक्तिः प्रागेवोक्ता । सर्वसङ्ख्या द्वे शते चतुरशीत्यधिके २८४ । एतानि चोक्तप्रकारेण द्विवेदसहितान्येव प्राप्यन्ते इति द्विवेद सम्भवैः पोडशभिगुण्यन्ते जातानि चतुश्चत्वारिंशदधिकानि पञ्चचत्वारिंशच्छतानि ४५४४, तानि पूर्वराशौ प्रक्षिप्यते । अविरतसम्यग्दृष्टेरौदा रिकमिश्रकाययोगे षष्टिरुदयपदानि । एतानि पुरुषवेदे एवं प्राप्यन्ते, न स्त्रीवेदनपुंसकवेदयोः कारणमत्र प्रागेवोक्तम्, तत एतानि अष्टभगुण्यन्ते जातानि चत्वारि शतानि अशीत्यधिकानि ४८० । एतान्यपि पूर्वराशौ प्रक्षिप्यन्ते, ततो जातः पूर्वराशिः पञ्चनवतिसहस्राणि सप्त शतानि सप्तदशाधिकानि ५७१७ । एतावन्ति योगगुणितानि पदवृन्दानि । उक्तं च
उत्तरमा सत्त सया, पणनउड्सहस्स पयसंखा । ९५७९७
सम्प्रत्युपयोगगुणिता उदयभङ्गा भाव्यन्ते - तत्र मिथ्यादृष्टौ सासादने च प्रत्येकं मत्यज्ञान श्रुताज्ञान-विभङ्गज्ञान-चक्षुः-अचक्षुर्दर्शनरूपाः पञ्च पञ्च उपयोगाः । सम्यग्मिध्यादृष्टि-अविरतसम्यग्दृष्टि-देशविरतानां मति श्रुता - ऽवधिज्ञान चक्षुः - अचतुः - अवधिदर्शनरूपाः प्रत्येकं षट् पट प्रमत्तादीनां सूक्ष्मसम्परायान्तानां त एव षड् मनः पर्यवज्ञानसहिताः सप्तर मिथ्यादृष्ट्यादिषु च चतुर्विंशतिगता उदयस्थानविकल्पाः “अड्डग चर चर चरगा य" (अन्तर्भाष्यगा० ६ ) इत्यादिना ये प्राग् उक्तास्ते यथा योगगमुपयोगैगुण्यन्ते, तद्यथा - मिध्यादृष्टेरष्टो सासादने चत्वारः मिलिता द्वादश, ते पञ्चभिरुपयोगैगुण्यन्ते जाता षष्टिः ६० | मिश्रस्य चत्वार उदयस्थानविकल्पाः, अविरतसम्यग्दृष्टेरष्टौ देशविरतस्याप्यष्टौ सर्वसङ्ख्यया विंशतिः, सा च षड्भिरुपयोगैगुण्यते जातं त्रिंशं शतम् १२० | तथा प्रमत्तस्याष्टौ उदयस्थानविकल्पाः, अप्रमत्तस्याप्यष्टौ, अपूर्वकरणस्य चत्वारः, सर्वे मिलिता विंशतिः, सा सप्तभिरुपयोगैगुण्यते जातं चत्वारिंशं शतम् १४० । सर्वसङ्ख्या त्रीणि शतानि विंशानि ३२० । ये त्वाचार्या मिथेऽपि मत्यज्ञान - श्रुताज्ञान विभङ्गज्ञान चक्षुर्दर्शना अचक्षुर्दर्शनरूपान् पञ्चैवोपयोगान् इच्छन्ति तेषां मतेन त्रीणि शतानि षोडशोतराणि ३१६ । एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, ततो जातानि अशीत्यधिकानि षट्सप्ततिशतानि ७६८० मतान्तरेण पञ्चसप्ततिशतानि चतुरशीत्यधिकानि ७५८४ | ततो द्विकोदय भङ्गा द्वादश, एकोदयभङ्गाः पञ्च, सर्वे मिलिताः सप्तदश, ते सप्तभिर्गुण्यन्ते जातमेकोनविंशं शतम् ११६ । तत् पूर्वराशौ प्रक्षिप्यते, ततः पूर्वराशिर्जातो नवनवत्यधिकानि सप्तसप्ततिशतानि ७७६६, मतान्तरेण सप्तसप्ततिशतानि त्र्युत्तराणि ७७०३ । उक्तं च
१ छा० मुद्रि० युक्तिरत्र प्रा० ॥ २ सं० १ त० म० द्विविधवेद ।। ३ सप्तदश सप्त शतानि पञ्चनवतिसहस्राणि पदसंख्या ॥ ४ सं ० सं० २ ० छा० त सप्त । मि ॥। ५० १ ० म० मते त्री ॥ ६ इत ऊर्ध्वम् छा० प्रन्थामम् २४१८ ||