________________
२५२
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[गाथाः 'उदयाणुवओगेसु सगसयरिसया तिउत्तरा होति । ७७०३ एतावन्त उपयोगगुणिता उदयभङ्गाः ।।
सम्प्रति पदवृन्दानि उपयोगगुणितानि भाव्यन्ते-तत्रोदयस्थानपदानि चतुर्विंशतिगतानि "अटुट्ठी बत्तीसं" (अन्तभाष्यगा०७ ) इत्यादिना यानि प्राग् उक्तानि तानि यथायोगमुपयोगेगुण्यन्ते । तत्र मिथ्यादृष्टेरष्टपष्टिरुदयस्थानपदानि, सासादनस्य द्वात्रिंशत् , मिलितानि शतम् १००, तत् पश्चभिरूपयोगेगुण्यते जातानि पञ्च शतानि ५०० । सम्यग्मिथ्यादृष्टेद्वात्रिंशत , अविरतसम्यग्दृष्टेः पष्टिः, देशविस्तस्य द्विपञ्चाशत् , सर्वमीलने चतुश्चत्वारिंशं शतम् १४४, एतत् पड्भिरुपयोगगुण्यते-जातान्यष्टौ शतानि चतुःपष्टयधिकानि ८६४ । प्रमत्तस्य चतुश्चत्वारिंशन , अप्रमत्तस्य चतुश्चत्वारिंशत् , अपूर्वकरणस्य विंशतिः, सर्वसङ्ख्यया अष्टाधिकं शतम् १०८, एतत् सप्तभिरुपयोगगुण्यते-जातानि सप्त शतानि पट्पञ्चाशदधिकानि ७५६ । सर्वसङ्खचया विशान्येकविंशतिशतानि २१२० । ये तु मिथ्यादृष्टाविव मिश्रेऽपि पञ्चोपयोगान् इच्छन्ति तन्मतेन सर्वसल्यया विंशतिशलान्यष्टाशीत्यधिकालि २०८८ । एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, जातानि पञ्चाशन सहस्राणि अष्टौ शतानि अशीत्यधिकानि ५०८८०, मतान्तरेण पश्चाशन सहस्राणि द्वादशोत्तरशताधिकानि ५०११२ । ततो द्विकोदयपदानि चतुर्विशतिः, एकोदयपदानि पञ्च, सर्वमिलने एकोनत्रिंशत् , सा सप्तभिरुपयोगैगुण्यते जाते त्र्युत्तरे द्वे शते २०३ । ते पूर्वराशो प्रक्षिप्येते, ततो जातः पूर्वराशिरेकपश्चाशत् सहस्राणि व्यशत्यधिकानि ५१०८३, मतान्तरेण पुनः पञ्चाशत् सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ५०३१५ । उक्तं च--
पन्नासं च सहस्सा, तिन्नि सया चेव पन्नारा । ५०३१५ एतावन्युपयोगगुणितानि पदवन्दानि । सम्प्रति लेश्यागुणिता उदयभङ्गा भाव्यन्ते---तत्र मिथ्यादृष्टयादिष्वविग्तसम्यग्दृष्टिपर्यन्तेषु प्रत्येक पट पड् लेश्याः, देशविरत-प्रमत्ता-ऽप्रमत्तेषु तेजः-पद्म-शुक्लरूपास्तिसस्तिस्रः, कृष्णादिलेश्याम देशविरत्यादिप्रतिपत्तेरभावान् ! अपूर्वकरणादो एका शुक्ललेश्या । मिथ्यादृष्ट्यादिषु च ये चतुर्विंशतिगता उदयस्थानविकल्पा अष्ट-चतुरादिमङ्ख्यास्ते यथायोग लेश्याभिगुण्यन्ते । तद्यथा-मिथ्यादृष्टेष्टाबुदयस्थानविकल्पाः, सासादनस्य चत्वारः, सम्यग्मिथ्यादृष्टश्चत्वारः, अविरतसम्यग्दृष्टेरो, मीलिताश्चतुर्विंशतिः, सा च पड्भिर्लेश्याभिगुण्यते, जातं चतुश्चत्वारिंशं शतम् १४४ । तथा देशविरतस्याष्टो, प्रमत्तस्याष्टो अप्रमत्तस्यापि चाष्टो, सर्वसङ्ख्यया चतुर्विंशतिः,
१ उदयानामुपयोगेषु सप्रसप्रतिशतानि व्युत्तराणि भवन्ति ॥ २ सं० १ त० म० मते सर्वः ।। ३ पञ्चाशच सहस्राणि त्रीणि शतानि चैव पञ्चदश ॥ ४ त० म० पन्नरसा ॥