________________
४१]
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् ।
२४१ "दोन्नि एक्कम्मि" त्ति एकस्मिन् अयोगिकेवलिनि द्वौ भङ्गो-उच्चैर्गोत्रस्योदय उच्चनीचैर्गोत्रे सती, एष विकल्पो द्विचरमसमयं यावत् । चरमसमये त्वेष विकल्पः-उच्चैर्गोत्रस्योदयः उच्चंगोत्रं सत् । नीचैगोत्रं हि द्विचरमसमये क्षीणमिति चरमसमये न सत प्राप्यते ।। सम्प्रत्यायुर्भङ्गा निरूप्यन्ते, तन्निरूपणार्थं चेयमन्तर्भाष्यगाथा
'अट्ठच्छाहिगवीसा सोलस वीसं च बार छ दोसु ।।
दो चउसु तीसु एक्कं, मिच्छाइसु आउगे भंगा ।। ४ ।। मिथ्यादृष्टयादिषु गुणस्थानकेषु अयोगिकेवलिगुणस्थानकपर्यन्तेषु क्रमेण तेऽष्टाधिकविंशत्यादय आयुपि भङ्गाः । तत्र मिथ्यादृष्टिगुणस्थानकेऽष्टाधिका विंशतिरायुषो भङ्गाः । मिथ्यादृष्टयो हि चतुर्गतिका अपि भवन्ति । तत्र नरयिकानधिकृत्य पञ्च, तिरश्चोऽधिकृत्य नव, मनुष्यानप्यधिकृत्य नव, देवानधिकृत्य पञ्च, एते च प्रागेव सप्रपञ्चं भाविता इति न भूयो भाव्यन्ते । सासादनस्य पडधिका विंशतिः, यतस्तिर्यञ्चो मनुष्या वा सासादनभावे वर्तमाना नरकायुन बध्नन्ति, ततः प्रत्येकं तिरश्चां मनुष्याणां च परभवायुबन्धकाले एकेको भङ्गो न प्राप्यत इति पविशतिः । सम्यग्मिथ्यादृष्टेः पोडश, सम्यग्मिथ्यादृष्टयो हि नायुर्वन्धमारभन्ते, तत आयुचन्धकाले नारकाणां यो द्वो भङ्गो, ये च तिरश्चां चत्वारः, ये च मनुष्याणामपि चत्वारः, यो च देवानां द्वौ, तानेतान् द्वादश वर्जयित्वा शेपाः षोडश भवन्ति । अविरतसम्यग्दृष्टेविंशतिभङ्गाः, कथम् ? इति चेद् उच्यते-तिर्यङ्-मनुष्याणां प्रत्येकमायुर्वन्धकाले ये नरक-तिर्यङ्मनुष्यगतिविषयास्त्रयस्त्रयो भङ्गाः, यश्च देव-नरयिकाणां प्रत्येकमायुबन्धकाले तियग्गतिविषय एकेको भङ्गः, ते अविरतसम्यग्दृष्टेर्न सम्भवन्ति, ततः शेषा विंशतिरेव भवति । देशविरतेद्वादश भङ्गाः, यतो देशविरतिस्तियङ्-मनुष्याणामेव भवति, ते च तिर्यङ्-मनुष्या देशविरता आयुर्वघ्नन्तो देवायुरेव बध्नन्ति, न शेषमायुः, ततस्तिपश्चां मनुष्याणां च प्रत्येक परभवायुर्वन्धकालात् पूर्व मेकैको भङ्गः, परभवायुर्वन्धकालेऽपि चैककः, आयुर्वन्धोत्तरकालं च चत्वारश्चत्वारः, यतः केचित् तिर्यञ्चो मनुष्याश्च चतुर्णामेकमन्यतमदायुवधा देशचिरति प्रतिपद्यन्ते, ततस्तदपेक्षया यथोक्ताश्चत्वारश्चत्वारो भङ्गाः प्राप्यन्ते, सर्वसङ्ख्यया द्वादश । “छ दोसु" त्ति 'द्वयोः' प्रमत्ता-ऽप्रमत्तयोः प्रत्येक षट् पड़ भङ्गाः । प्रमत्ता-ऽप्रमत्तगयता हि मनुष्या एव भवन्ति, तत आयुनन्धकालात् पूर्वमेकः, आयुर्वन्धकालेऽप्येकः, प्रमत्ता-ऽप्रमत्ता हि देवायुरेबैकं बध्नन्ति न शेषमायुः, वन्धोत्तरकालं च प्रागुक्तदेशवि रन्युक्त्यनुसारेण चत्वार इति ।
१ गाथेयं सप्ततिकाभाध्ये त्रयोदशी ॥ २ मुद्रि० रस छ दोसु ॥ ३ स०१ त० म० मिन्यः ।। ४ सं० १ ० त० रतियुक्त्यनु० ॥
31