Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 541
________________ ३४८ मलयगिरिमहर्पिविनिर्मितविवृत्युपेत [ गाथा किं कारणम् ? इति चेद् उच्यते-इह येन पूर्व वेदकसम्यग्दृष्टिना सता अनन्तानुवन्धिनो विसंयोजिता, विसंयोज्य च परिणामपरावृत्त्या सम्यक्त्वात् प्रच्युत्य मिथ्यात्वं गतेन भूयोऽप्यनन्तानुवन्धिनो बन्दुमारभ्यन्ते तस्यैव मिथ्यादृष्टेबन्धावलिकामानं कालं यावदनन्तानुवन्ध्युदयो न प्राप्यते, न शेषस्यः अनन्तानुबन्धिनश्च विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यते जघन्यतोऽप्यन्तमुहूर्तावशेषायुष्क एव, अनन्तानुबन्ध्युदयरहितस्य मिथ्यादृष्टेः कालकरणप्रति. षेधात् । तथोक्तम् - 'कुणइ जं न सो कालं । इति । ततस्तस्मिन्नेव भवे वर्तमानो मिथ्यात्वप्रत्ययेन भूयोऽप्यनन्तानुबन्धिनो बध्नाति, बन्धावलिकातीतांश्च प्रवेदयते । ततोऽपान्तरालगतो वर्तमानस्य भवान्तरे वा प्रथमत उत्पन्नस्य मिथ्यादृष्टेः सतोऽनन्तानुवन्ध्युदयरहिता उदयविकल्पा न प्राप्यन्ते । अत्र च कार्मणकाययोगोऽपान्तरालगतो औदारिकमिश्रकाययोग-बैंक्रियमिश्रकाययोगौ च भवान्तरे उन्पद्यमानस्य, ततः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतस्त्रश्चतुर्विंशतयोऽनन्तानुवन्ध्युदयरहिता न प्राप्यन्ते । 'बैंक्रियमिश्रकाययोगो भवान्तरे प्रथमत एवोत्पद्यमानस्य भवति' इति यदुक्तं तद् बाहुल्यमाश्रित्योक्तम् , अन्यथा तिर्य-मनुष्याणामपि मिथ्यादृशां वैक्रियकारिणां वैक्रियमिश्रमवाप्यत एव परं चूर्णिकृता तद् नात्र विवक्षितमित्यस्माभिरपि न विवक्षितम् , एवमुत्तरत्रापि चूर्णिकारमार्गानुसरणं परिभावनीयम् । तथा सासादनस्य कार्मणकाययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे च प्रत्येकं चतस्रश्चतस्रश्चतुर्विंशतयः, सम्यग्मिथ्यादृष्टे क्रियकाययोगे चतस्रः, अविरतसम्यग्दृष्टे क्रियकाययोगेऽष्टो, देशविरतस्य वैक्रिये बैंक्रियमिश्रकाययोगे च प्रत्येकमष्टावष्टो, प्रमत्तसंयतस्यापि वैक्रिये वैक्रियमिश्रे च प्रत्येकमष्टावष्टौ, अप्रमत्तसंयतस्य वैकि यकाययोगेऽष्टी, सर्वसङ्ख्यया चतुरशीतिश्चतुर्विंशतयः । चतुरशीतिश्चतुर्विशत्या गुणिता जातानि षोडशाधिकानि विंशतिशतानि २०१६, तानि पूर्वराशो प्रक्षिप्यन्ते । तथा सासादनस्य क्रियमिश्रे वर्तमानस्य ये चत्वारोऽप्युदयस्थानविकल्पाः, तद्यथा-सप्तोदय एकविधः अष्टोदयो द्विविधो नवोदय एकविधः, अत्र नपुसकवेदो न लभ्यते, वैक्रिय काययोगिषु नपुसकवेदिपु मध्ये सासादनस्योत्यादाभावत् । ये चाविरतसम्यग्दृष्टय क्रियमिश्रे कार्मण काययोगे च प्रत्येकमष्टावष्टौ उदयस्थानविकल्पा 'एषु स्त्रीवेदो न लभ्यते, बैंक्रियकाययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दृप्टेरुत्पा १ करोति यद् न स कालम ।। २ सं० सं० २ छा० मुद्रि० अथ च ।। ३ सं० सं० १ सं० २ त० म० व्ययो०।। ४ सं० त०म० न्यमिश्रका० ।। ५ स० त० म० ) वर्तमानस्य काम ।। ६सं. त० म० एतेषु ॥

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602