Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 534
________________ ४१] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् । २४१ "दोन्नि एक्कम्मि" त्ति एकस्मिन् अयोगिकेवलिनि द्वौ भङ्गो-उच्चैर्गोत्रस्योदय उच्चनीचैर्गोत्रे सती, एष विकल्पो द्विचरमसमयं यावत् । चरमसमये त्वेष विकल्पः-उच्चैर्गोत्रस्योदयः उच्चंगोत्रं सत् । नीचैगोत्रं हि द्विचरमसमये क्षीणमिति चरमसमये न सत प्राप्यते ।। सम्प्रत्यायुर्भङ्गा निरूप्यन्ते, तन्निरूपणार्थं चेयमन्तर्भाष्यगाथा 'अट्ठच्छाहिगवीसा सोलस वीसं च बार छ दोसु ।। दो चउसु तीसु एक्कं, मिच्छाइसु आउगे भंगा ।। ४ ।। मिथ्यादृष्टयादिषु गुणस्थानकेषु अयोगिकेवलिगुणस्थानकपर्यन्तेषु क्रमेण तेऽष्टाधिकविंशत्यादय आयुपि भङ्गाः । तत्र मिथ्यादृष्टिगुणस्थानकेऽष्टाधिका विंशतिरायुषो भङ्गाः । मिथ्यादृष्टयो हि चतुर्गतिका अपि भवन्ति । तत्र नरयिकानधिकृत्य पञ्च, तिरश्चोऽधिकृत्य नव, मनुष्यानप्यधिकृत्य नव, देवानधिकृत्य पञ्च, एते च प्रागेव सप्रपञ्चं भाविता इति न भूयो भाव्यन्ते । सासादनस्य पडधिका विंशतिः, यतस्तिर्यञ्चो मनुष्या वा सासादनभावे वर्तमाना नरकायुन बध्नन्ति, ततः प्रत्येकं तिरश्चां मनुष्याणां च परभवायुबन्धकाले एकेको भङ्गो न प्राप्यत इति पविशतिः । सम्यग्मिथ्यादृष्टेः पोडश, सम्यग्मिथ्यादृष्टयो हि नायुर्वन्धमारभन्ते, तत आयुचन्धकाले नारकाणां यो द्वो भङ्गो, ये च तिरश्चां चत्वारः, ये च मनुष्याणामपि चत्वारः, यो च देवानां द्वौ, तानेतान् द्वादश वर्जयित्वा शेपाः षोडश भवन्ति । अविरतसम्यग्दृष्टेविंशतिभङ्गाः, कथम् ? इति चेद् उच्यते-तिर्यङ्-मनुष्याणां प्रत्येकमायुर्वन्धकाले ये नरक-तिर्यङ्मनुष्यगतिविषयास्त्रयस्त्रयो भङ्गाः, यश्च देव-नरयिकाणां प्रत्येकमायुबन्धकाले तियग्गतिविषय एकेको भङ्गः, ते अविरतसम्यग्दृष्टेर्न सम्भवन्ति, ततः शेषा विंशतिरेव भवति । देशविरतेद्वादश भङ्गाः, यतो देशविरतिस्तियङ्-मनुष्याणामेव भवति, ते च तिर्यङ्-मनुष्या देशविरता आयुर्वघ्नन्तो देवायुरेव बध्नन्ति, न शेषमायुः, ततस्तिपश्चां मनुष्याणां च प्रत्येक परभवायुर्वन्धकालात् पूर्व मेकैको भङ्गः, परभवायुर्वन्धकालेऽपि चैककः, आयुर्वन्धोत्तरकालं च चत्वारश्चत्वारः, यतः केचित् तिर्यञ्चो मनुष्याश्च चतुर्णामेकमन्यतमदायुवधा देशचिरति प्रतिपद्यन्ते, ततस्तदपेक्षया यथोक्ताश्चत्वारश्चत्वारो भङ्गाः प्राप्यन्ते, सर्वसङ्ख्यया द्वादश । “छ दोसु" त्ति 'द्वयोः' प्रमत्ता-ऽप्रमत्तयोः प्रत्येक षट् पड़ भङ्गाः । प्रमत्ता-ऽप्रमत्तगयता हि मनुष्या एव भवन्ति, तत आयुनन्धकालात् पूर्वमेकः, आयुर्वन्धकालेऽप्येकः, प्रमत्ता-ऽप्रमत्ता हि देवायुरेबैकं बध्नन्ति न शेषमायुः, वन्धोत्तरकालं च प्रागुक्तदेशवि रन्युक्त्यनुसारेण चत्वार इति । १ गाथेयं सप्ततिकाभाध्ये त्रयोदशी ॥ २ मुद्रि० रस छ दोसु ॥ ३ स०१ त० म० मिन्यः ।। ४ सं० १ ० त० रतियुक्त्यनु० ॥ 31

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602