Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 531
________________ २३८ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः शदुदये चत्वारि सत्तास्थानानि, तद्यथा अशीतिः पट्सप्ततिः एकोनाशीतिः पञ्चसप्ततिश्च । एकोनविंशदुदयो हि तीर्थकरेऽतीर्थकरे च प्राप्यते, तत्र तीर्थकरमधिकृत्याये द्वे सत्तास्थाने, अतीर्थकरमधिकृत्य पुनरन्तिमे । एवं त्रिंशदुदयेऽपि चत्वारि । एकत्रिंशदुदये द्वे-अशीतिः पट्सप्ततिश्च । नवोदये' त्रीणि, तद्यथा-अशीतिः पट्सप्ततिः नव च । तत्राद्ये द्वे तीर्थकरस्यायोगिकेवलिनो द्विचरमसमयं यावत् प्राप्येते, चरमसमये तु नव । अष्टोदये त्रीणि, तद्यथाएकोनाशीतिः पञ्चसप्ततिः अष्टौ च। तत्राद्य द्वे अतीर्थकरस्यायोगिकेवलिनो द्विचरमसमयं यावत् , चरमसमये त्वष्टाविति : सर्वसमुदायेन संज्ञिनां चतुस्त्रिंशदधिके द्वे शते २३४ सत्तास्थानानाम् ॥ ३७ ॥ ३८॥ तदेवं जीवस्थानान्यधिकृत्य स्वामित्वमुक्तम् । सम्प्रति गुणस्थानान्यधिकृत्याह नाणंतराय तिविहमवि दससु दो होंति दोस्सु ठाणेसु। मिथ्यादृष्टिप्रभृतिषु सूक्ष्मसम्परायपर्यन्तेषु दशसु गुणस्थानकेषु ज्ञानावरणमन्तरायं च 'त्रिविधमपि' बन्ध-उदय-सत्तापेक्षया त्रिप्रकारमपि भवति, मिथ्यादृष्टयादिषु दशसु गुणस्थानकेषु ज्ञानावरणस्यान्तरायस्य च पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता इत्यर्थः । 'द्वयोः पुनगुणस्थानकयोः' उपशान्तमोह-क्षीणमोहरूपयोः 'हे' उदय-सत्ते स्तः, न बन्धः, बन्धस्य सूक्ष्मसम्पराये व्यवच्छिनत्वात् । एतदुक्तं भवति-बन्धाभावे उपशान्तमोहे क्षीणमोहे च ज्ञानावरणीयाऽन्तराययोः प्रत्येकं पञ्चविध उदयः पञ्चविधा च सत्ता भवतीति, परत उदय-सत्तयोरप्यभावः । मिच्छासाणे विइए, नव चउ पण नव य संतसा ॥३॥ 'द्वितीये द्वितीयस्य दर्शनावरणस्य मिथ्यादृष्टौ सासादने च नवविधो बन्धः, चतुर्विधः पञ्चविधोका उदयः, नवविधा सत्ता , द्वयोरप्यनयोगुणस्थानकयोः स्त्यानिित्रकस्य नियमतो बन्धात् । “नत्र य संतंस" त्ति नव च 'सत्तांशाः' सत्ताभेदाः सत्प्रकृतय इत्यर्थः । एतेन च द्वौ विकल्पो दर्शितो, तमथा-नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, अथवा नवविधो यन्धः पञ्चविध उदयो नवविधा सत्ता ॥ ३९ ॥ मिसाइ नियट्टीमो छ चउ पण नव य संतकम्मंसा । चउबंध तिगे चउ पण, नवंस दुसु जुयल छ स्संता ।। ४० ॥ १ स० १ त म ०दयेऽपि त्रो० ॥ २ अत्र स०२ पुस्तके-"चतुर्दशसु जीवस्थानेषु सर्वसङ्ख्यया, सत्ताविकल्पाः १३३०" इति टिप्पणकं वर्तते ॥ स१त० म० पुस्तकेषु त्वित ऊर्ध्वम्-"तदेवं चतुर्दशसु जीवस्थानेषु सर्वसङ्ख्यया सत्तास्थानानि १३३०" इति पाठः टीकान्त रेषु दृश्यते । सं छा० मुद्रि० पुस्तकेषु च सर्वथा नास्ति ॥ ३ स० १ त० म० ०त्ता इत्यर्थः । छा० मुद्रि० ०त्ता इति द्वौ विकल्पो द्वयोर०॥

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602