________________
२३८ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथाः शदुदये चत्वारि सत्तास्थानानि, तद्यथा अशीतिः पट्सप्ततिः एकोनाशीतिः पञ्चसप्ततिश्च । एकोनविंशदुदयो हि तीर्थकरेऽतीर्थकरे च प्राप्यते, तत्र तीर्थकरमधिकृत्याये द्वे सत्तास्थाने, अतीर्थकरमधिकृत्य पुनरन्तिमे । एवं त्रिंशदुदयेऽपि चत्वारि । एकत्रिंशदुदये द्वे-अशीतिः पट्सप्ततिश्च । नवोदये' त्रीणि, तद्यथा-अशीतिः पट्सप्ततिः नव च । तत्राद्ये द्वे तीर्थकरस्यायोगिकेवलिनो द्विचरमसमयं यावत् प्राप्येते, चरमसमये तु नव । अष्टोदये त्रीणि, तद्यथाएकोनाशीतिः पञ्चसप्ततिः अष्टौ च। तत्राद्य द्वे अतीर्थकरस्यायोगिकेवलिनो द्विचरमसमयं यावत् , चरमसमये त्वष्टाविति : सर्वसमुदायेन संज्ञिनां चतुस्त्रिंशदधिके द्वे शते २३४ सत्तास्थानानाम् ॥ ३७ ॥ ३८॥ तदेवं जीवस्थानान्यधिकृत्य स्वामित्वमुक्तम् । सम्प्रति गुणस्थानान्यधिकृत्याह
नाणंतराय तिविहमवि दससु दो होंति दोस्सु ठाणेसु।
मिथ्यादृष्टिप्रभृतिषु सूक्ष्मसम्परायपर्यन्तेषु दशसु गुणस्थानकेषु ज्ञानावरणमन्तरायं च 'त्रिविधमपि' बन्ध-उदय-सत्तापेक्षया त्रिप्रकारमपि भवति, मिथ्यादृष्टयादिषु दशसु गुणस्थानकेषु ज्ञानावरणस्यान्तरायस्य च पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता इत्यर्थः । 'द्वयोः पुनगुणस्थानकयोः' उपशान्तमोह-क्षीणमोहरूपयोः 'हे' उदय-सत्ते स्तः, न बन्धः, बन्धस्य सूक्ष्मसम्पराये व्यवच्छिनत्वात् । एतदुक्तं भवति-बन्धाभावे उपशान्तमोहे क्षीणमोहे च ज्ञानावरणीयाऽन्तराययोः प्रत्येकं पञ्चविध उदयः पञ्चविधा च सत्ता भवतीति, परत उदय-सत्तयोरप्यभावः ।
मिच्छासाणे विइए, नव चउ पण नव य संतसा ॥३॥
'द्वितीये द्वितीयस्य दर्शनावरणस्य मिथ्यादृष्टौ सासादने च नवविधो बन्धः, चतुर्विधः पञ्चविधोका उदयः, नवविधा सत्ता , द्वयोरप्यनयोगुणस्थानकयोः स्त्यानिित्रकस्य नियमतो बन्धात् । “नत्र य संतंस" त्ति नव च 'सत्तांशाः' सत्ताभेदाः सत्प्रकृतय इत्यर्थः । एतेन च द्वौ विकल्पो दर्शितो, तमथा-नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, अथवा नवविधो यन्धः पञ्चविध उदयो नवविधा सत्ता ॥ ३९ ॥
मिसाइ नियट्टीमो छ चउ पण नव य संतकम्मंसा । चउबंध तिगे चउ पण, नवंस दुसु जुयल छ स्संता ।। ४० ॥
१ स० १ त म ०दयेऽपि त्रो० ॥ २ अत्र स०२ पुस्तके-"चतुर्दशसु जीवस्थानेषु सर्वसङ्ख्यया, सत्ताविकल्पाः १३३०" इति टिप्पणकं वर्तते ॥ स१त० म० पुस्तकेषु त्वित ऊर्ध्वम्-"तदेवं चतुर्दशसु जीवस्थानेषु सर्वसङ्ख्यया सत्तास्थानानि १३३०" इति पाठः टीकान्त रेषु दृश्यते । सं छा० मुद्रि० पुस्तकेषु च सर्वथा नास्ति ॥ ३ स० १ त० म० ०त्ता इत्यर्थः । छा० मुद्रि० ०त्ता इति द्वौ विकल्पो द्वयोर०॥