________________
२३७
३७-३८ ]
चन्द्रषिमहत्तस्कृतं सप्ततिकाप्रकरणम। षाभावाद् ग्रन्थगौरवभयाच्च । एकत्रिंशदुदये त्रीणि सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिश्च । सर्वसङ्ख्यया अष्टाविंशतिबन्धकानामेकोनविंशतिः सत्तास्थानानि । एकोनत्रिंशद्वन्धकानां सत्तास्थानानि पञ्चविंशतिबन्धकानामिव भावनीयानि, तानि च त्रिंशत् । नवरमत्र विशेपो भण्यते-अविरतसम्यग्दृष्टेर्देवगतिप्रायोग्यामे कोनत्रिंशतं बध्नतः एकविंशति-पड्विशतिअष्टाविंशति-एकोनविंशत्-त्रिंशदुदयेषु प्रत्येकं द्वे द्वे सत्तास्थाने भवतः, तद्यथा--त्रिनवतिः एकोननवतिश्च । पञ्चविंशत्युदये सप्तविंशत्युदये च क्रियसंयत-संयतासंयतानधिकृत्य ते एव द्वे द्वे सत्ता स्थाने । अथवा आहारकसंयतानधिकृत्य पञ्चविंशत्युदये सप्तविंशत्युदये च त्रिनवतिः, नैरयिक तीर्थकरसत्कर्माणं मिथ्यादृष्टिमधिकृत्येकोननवतिः । सर्वाणि चतुर्दश । सर्वसङ्ख्यया एकोनत्रिंशद्वन्धकानां सत्तास्थानानि चतुश्चत्वारिंशत् । त्रिंशद्वन्धकानामपि सत्तास्थानानि पञ्चविशतिबन्धकानामिव भावनीयानि, तानि च त्रिंशत् । केवलं देवानां मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं बध्नतां एकविंशति-पञ्चविंशति-सप्तविंशति-अष्टाविंशति एकोनत्रिंशत्त्रिंशदुदवेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा--त्रिनवतिरेकोननवतिश्च । एतानि च द्वादश, ततः सर्वसङ्ख्यया त्रिंशद्वन्धकानां द्विचत्वारिंशत् सत्तास्थानानि । एकत्रिंशद्वन्धकानामेकमेव विनवतिरूपं सत्तास्थानम् , एकत्रिंशतं हि तीर्थकरा-ऽऽहारकमहितामेव बध्नाति, ततस्तीर्थकराऽऽहारकयोरपि सत्तायां प्रक्षेपे विनवतिरेव भवति । एकविधबन्धकानामष्टौ सत्तास्थानानि, तयथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः पट्सप्ततिः पश्चसप्ततिश्च । तत्राद्यानि चत्वायुपशमश्रेण्याम् अथवा क्षपक श्रेण्यां यावद् नाद्यापि त्रयोदश नामानि क्षीयन्ते, तेषु तु क्षीणेषु उपरितनानि चत्वारि सत्तास्थानानि लभ्यन्ते । बन्धाभावे संज्ञिपर्याप्तानामष्टो सत्तास्थानानि, तानि चानन्तरोक्तान्येव द्रष्टव्यानि केवलमाद्यानि चत्वार्युएशान्तमोहगुणस्थानके, उपरितनानि तु चत्वारि क्षीणमोहगुणस्थानके । तदेवं सर्वसङ्खचया झिपर्याप्तानां द्वे शते सत्तास्थानानामष्टाधिके २०८ । यदि पुनद्रव्यमनोऽभिसम्बन्धात देवलिनोऽपि संज्ञिनो विवक्ष्यन्ते तदानीं केवलिसत्कानि पड्विशतिसत्तास्थानान्यपि भवन्ति । तथाहि--केलिनां दश उदयस्थानानि, तद्यथा---विंशतिः एकविंशतिः षड्विशतिः सतविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् नव अष्टौ च । तत्र विंशत्युदय दू सत्तास्थाने, तद्यथा-एकोनाशीतिः पञ्चसप्ततिश्च । एते एव पडिवशत्युदया-ऽष्टाविंशत्युदययोरपि प्रत्येकं द्रष्टव्ये । एकविंशत्युदये इमे द्वे सत्तास्थाने-अशीतिः पट्सप्तनिश्च । ते एव सप्तविंशत्युदयेऽपि । एकोनत्रि
१ सं० १त- म० स्थाने भवतः । अय० ॥ २ स० १ त० म० ०र्वाण्यपि चतुः ॥ ३ सं०२ ०श्च । एते च स०॥