________________
२३६ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[गाथा चतुर्ध्वप्युदयस्थानेषु प्रत्येकं पञ्च पश्च सत्तास्थानानि, सर्वसङ्ख्यया विंशतिः । एवं पञ्चविंशतिषड्विशति-एकोनत्रिंशत्-त्रिंशद्धन्धकानामपि वक्तव्यम् । ततः सूक्ष्मपर्याप्तानां सर्वसङ्ख्यया सत्तास्थानानि शतम् १०० । बादरैकेन्द्रियपर्याप्तानां त्रयोविंशतिबन्धकानामेकविंशति-चतुर्विंशतिपञ्चविंशति-पड्विशत्युदयेषु पश्च पञ्च सत्तास्थानानि, सप्तविंशत्युदये चत्वारि, सर्वसङ्ख्यया चतुविंशतिः । एवं पञ्चविंशति-पड्विशति-एकोनत्रिंशत्-त्रिंशद्वन्धकानामपि प्रत्येकं चतुर्विशतिश्चतुविंशतिः सत्तास्थानानि वाच्यानि । सर्वसङ्खयया पर्याप्तबादरेकेन्द्रियाणां विशं शतं १२० सत्तास्थानानाम् । द्वीन्द्रियपर्याप्तकानां त्रयोविंशतिबन्धकानाम् एकविंशत्युदये पहिवशत्युदये च पञ्च पश्न सत्तास्थानानि , अष्टाविंशति-एकोनत्रिंशत्-त्रिंशद्-एकत्रिंशदुदयेषु तु प्रत्यकं चत्वारि चत्वा. रीति सर्वसङ्ख्यया पड्विंशतिः । एवं पञ्चविंशति-पड्विंशति-एकोनत्रिंशत् त्रिंशद्वन्धकानां प्रत्येक षड्विंशतिः पड्विशतिः सत्तास्थानानि, सर्वसङ्ख्यया त्रिंशं शतम् १३० । एवं त्रीन्द्रियाणां चतु. रिन्द्रियाणामपि पर्याप्तानां वक्तव्यम् । असंज्ञिपञ्चेन्द्रियाणामपि पर्याप्तानां त्रयोविंशतिबन्धकानामेकविंशत्युदये पड्विशत्युदये च प्रत्येकं पञ्च पञ्च सत्तास्थानानि, अष्टाविंशति एकोनत्रिंशत्त्रिंशद् एकत्रिंशदुदयेषु तु चत्वारि चत्वारीति सर्वसङ्ख्यया पविशतिः। एवं पञ्चविंशति-पडिव. शति-एकोनत्रिशत-त्रिंशद्वन्धकानामपि वक्तव्यम् । अष्टाविंशतिबन्धकानां पुनस्तेषां द्वे एवोदयस्थाने, तद्यथा-त्रिंशदेकत्रिंशच्च । तत्र प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-द्विनवतिः अष्ट शीतिः पडशीतिश्च | अष्टाविंशतिर्हि देवगतिप्रायोग्या नरकगतिप्रायोग्या वा, ततस्तस्यां बध्यमानायामवश्यं वैक्रियचतुष्टयादि बध्यते इत्यशीति-अष्टसप्तती न प्राप्यते । सर्वसङ्ख्यया पर्यासासंज्ञिपञ्चेन्द्रियाणां पत्रिंशं सत्तास्थानानां शतम् १३६ । पर्याप्तसंज्ञिपञ्चेन्द्रियाणां त्रयोविंशतिबन्धकानां प्रागिव षड्विशतिः सत्तास्थानानि वाच्यानि । एवं पञ्चविंशतिबन्धकानामपि, नवरं दवानां पञ्चविंशतिबन्धकानां पञ्चविंशत्युदये सप्तविंशत्युदये च द्वे दू सत्तास्थाने, तद्यथाद्विनवतिरष्टाशीतिश्च । एतानि च 'प्रागुक्तपड्विंशतिसत्तास्थानापेक्षयाऽधिकानि प्राप्यन्ते इति सर्वसङ्ख्यया पञ्चविंशतिबन्धकानां त्रिंशत् । षडिवशतिबन्धकानाभपि त्रिंशत् । अष्टाविंशतिबन्धकानामष्टावृदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशच्चेति । तत्रैकविंशतो द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च । एते एव द्व पञ्चविंशति-पड्विंशति-सप्तविंशति-अष्टाविंशति-एकोनत्रिंशदुदयेष्वपि प्रत्येक वक्तव्ये । त्रिंशदुदये चत्वारि, तद्यथा--द्विनवतिः एकोननवतिः अष्टाशीतिः पडशीतिश्च । एतेषां च भावना प्रागेवाष्टाविंशतिबन्धे संवेधचिन्तायां विस्तरेण कृतेति न भूयः क्रियते, विशे
१ सं० वक्तव्यानि ॥ २ सं०१ त० म० च प्रत्येक प० ॥३ सं००नि, ग्रन्थाग्रम २०००, अ॥ ४ सं०१त० म०तु चत्वा०॥ ५ सं० सं०१ सं०२०म००मपि वक्त०६१ सं० छा० प्राक्तनव०॥