________________
३७-३८ । - चन्द्रषिमहत्तरकृतं सप्रतिकाप्रकरणम् ।
२३५ ततः प्राणायानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते एकोनत्रिंशत, अत्रापि भङ्गानां पञ्च शतानि पट्सप्तत्यधिकानि ५७६; अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते 'उद्योते तूदिते एकोनत्रिंशत् , अत्रापि पञ्च शतानि पट्सप्तत्यधिकानि भङ्गानाम् ५७६, सर्वसङ्ख्यया एकादश शतानि द्विपञ्चाशदधि कानि ११५२ । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायामेकोनविंशति सुस्वर-दुःस्वरयोरेकतरस्मिन प्रक्षिप्ते त्रिंशद् भवति, अत्र पाश्चात्यान्युच्छ्वासलब्धानि भङ्गानां पञ्च शतानि पट्सप्तत्यधिकानि ५७६ स्वरद्विकेन गुण्यन्ते तत एकादश शतानि द्विपञ्चाशदधिकानि ११५२ भवन्ति; अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशद् भवति, अत्र भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि ५७६ । सर्वसङ्ख्यया त्रिंशति भङ्गाः सप्तदश शतान्यष्टाविंशत्यधिकानि १७२८ | ततः स्वरसहितायां त्रिंशति उद्योते प्रक्षिप्ते एकत्रिंशद् भवति, अत्र भङ्गानामेकादश शतानि द्विपञ्चाशदधिकानि ११५२ । सर्वसङ्ख्यया पर्याप्तासंज्ञिपञ्चेन्द्रियस्यकोनपञ्चाशच्छतानि चतुरधिकानि ४६०४ । असंज्ञिपञ्चेन्द्रियाश्च क्रियलब्धिहीनत्वाद् वैक्रियं नारभन्ते ततस्तदाश्रिता उदयविकल्पान प्राप्यन्ते । सत्तास्थानानि पञ्च, तद्यथा- द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्ट सप्ततिश्च । अत्रैकविंशत्युदयसत्का अष्टो भङ्गाः षड्विशत्युदयसत्काश्चाष्टाशीत्यधिकशतद्वयसङ्ख्याः २८८ पञ्चसत्तास्थानकाः, शेपाः सर्वेऽपि चतुःसत्तास्थानकाः, युक्तिरत्र प्रागुक्ता द्रष्टव्या ।
"अदृष्ट दसगं" ति अत्र "सन्नीय" इति सम्बध्यते । संज्ञिपञ्चेन्द्रियपर्याप्तस्य सर्वाणि बन्धस्थानानि, तानि चाष्टौ विंशति-चतुर्विंशति-नवा-ऽष्टरहितानि । साण्यप्युदयस्थानानि तान्ययष्टी, विंशति-नवा-ऽष्टोदया हि केवलिनो भवन्ति, चतुर्विशत्युदयश्चैकेन्द्रियाणाम् , अत एते वज्यन्ते. अत्र केवली संज्ञित्वेन न विवक्षित इति तदुदयप्रतिषेधः । नवा-ऽष्टरहितानि सर्वाग्यपि सत्तास्थानानि, तानि च दश । अत्राप्ये कविंशत्युदयभङ्गा अष्टौ, पविशत्युदयभङ्गाश्चाष्टाशीत्यधिकशतद्वयसङ्ख्याः, २८८ पञ्चसत्तास्थानकाः, शेषाश्चतुःसत्तास्थानकाः ।।
सम्प्रति संवेधश्चिन्त्यते-सूक्षी केन्द्रियाणामपर्याप्तानां त्रयोविंशतिबन्धानामेकविंशत्युदये। पञ्च सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः पडशीतिः अशीतिः अष्टसप्ततिश्च । एवं चतुर्विंशत्युदयेऽपि । सर्वसङ्ख्यया दश । एवं पञ्चविंशति-पड्विशति-एकोनत्रिंशत्-त्रिंशद्वन्धकानामपि द्वे द्वे उदयस्थाने अधिकृत्य प्रत्येक दश दश सत्तास्थानान्यवगन्तव्यानि, सर्वसङ्घ यया पञ्चाशत् ५० । एवमन्येषामपि षण्णामपर्याप्तानां भावनीयम् , नवरमात्मीये आत्मीय द्वे द्वे उदयस्थाने प्रागुक्तस्वरूपे वक्तव्ये । सूक्ष्मपर्याप्तकानां त्रयोविंशतिबन्धकानामेकविंशत्यादिषु
१ मुद्रि० उद्योतनाम्मि तू० ॥२ सं० १ त० म० कानि ११५२ भवन्ति ।। ३ मुद्रि छा० ति कृत्वा त° ॥