________________
२३४ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथा सर्वसङ्ख्यया एकोनविंशति चत्वारो भङ्गाः । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायामेकोनत्रिंशति सुस्वर-दुःस्वरयोरेकतरस्मिन् क्षिप्ते त्रिंशद् भवति, अत्र भङ्गाः सुस्वर-दुःस्वर-यशःकीतिअयशःकीर्तिपदेवत्वारः; अथवोच्छ्वाससहितायामेकोनत्रिंशति स्वरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशत् , अत्रोद्योत-यशःकीर्ति अयशःकीर्तिपदद्वौं भङ्गोः सर्वसङ्ख्यया त्रिंशति पड़ भङ्गाः । स्वरसहितायामेव त्रिंशति उद्योते प्रक्षिप्ते एकत्रिंशत् , अत्र सुस्वर-दुःस्वर-यशःकीर्ति-अयश:कीर्तिपदैर्भङ्गाश्चत्वारः । सर्वसङ्ख्यया पर्याप्तद्वीन्द्रियस्य भङ्गा विंशतिः । सत्तास्थानानि पञ्च, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च । अत्र यावेकविंशत्युदये द्वो भङ्गो यो च षड्विशत्युदये एते चत्वारः पञ्चसत्तास्थानकाः, यतोऽष्टसप्ततिस्तेजः-वायुभवादुहत्य पर्याप्तद्वीन्द्रियत्वेनोत्पन्नानधिकृत्य कियत्कालं प्राप्यते, शेषास्तु पोडश भङ्गकाश्चतु:सत्तास्थानकाः, तेष्वष्टसप्ततेरप्राप्यमाणत्वात् । तेजः-वायवर्जा हि शरीरपर्याप्त्या पर्याप्ता नियमतो मनुष्यगति-मनुष्यानुपूव्यौ बध्नन्ति, ततोऽष्टाविंशत्याद्युदयेष्वष्टसप्ततिर्न प्राप्यते । एवं त्रीन्द्रियचतुरिन्द्रियाणामपि पर्याप्तानां वक्तव्यम् ।
"छ च्छ प्पणगं" ति अत्र "असन्नी य" इति सम्बध्यते । असंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य पड् बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः पड्विशतिः अष्टाविंशतिः एकोनत्रिशत त्रिंशत् । असंज्ञिपञ्चेन्द्रिया हि पर्याप्ताः नरकगति-देवगतिप्रायोग्यमपि वध्नन्ति । ततस्तेषामष्टाविंशतिरपि बन्धस्थानं लभ्यते । षड् उदयस्थानानि, तद्यथा-एकविंशतिः पविशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्रेकविंशतिरियम-तैजसं कार्यगम् अगुरुलघु स्थिराऽस्थिरे शुभा ऽशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी पञ्चेन्द्रियजातिः सनाम बादरनाम पर्याप्तकनाम सुभग-दुर्भगयोरेकतरं आदेया-ऽनादेययोरेकतरं यशःकीर्ति-अयशःकीयोरेकतरेति । एषा चैकविंशतिरसंज्ञिपञ्चेन्द्रिय पर्याप्तस्यापान्तरालगतौ वर्तमानस्य प्राप्यते । अत्र सुभग-दुर्भगा-ऽऽदेया-उनादेय-यशःकीर्ति-अयशःकीर्तिभिरष्टौ भङ्गाः । ततः शरीरस्थस्यौदारिकमौदारिकाङ्गोपाङग षण्णां संस्थानानामेकतमत् संस्थानं पण्णां संहननानामेकतमत् संहननम् उपघातं प्रत्येकमिति प्रकृतिपटक प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततः पड्विशतिर्भवति, अत्र पडिमः संस्थानः षड्भिः संहननैः सुभग-दुर्भगाभ्यामादेया-ऽनादेयाभ्यां यशःकीर्ति-अयशःकीर्तिभ्यां च द्वे शते भङ्गानामष्टाशीत्यधिक २८८ । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्ता-ऽप्रशस्तविहायोगत्यन्यतरविहायोगतो च प्रक्षिप्तायामष्टाविंशतिः, अत्र पाश्चात्या एव भङ्गा विहायोगतिद्विकेन गुण्यन्ते ततो भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि भवन्ति ५७६ ।
१ स० १ त० म० गाः । सुस्व ॥२ सं० १ त० म० छा० °दये द्वौ भनौ एते च ॥ ३ मुद्रि० ततः सप्तवि ।। ४ स०व्यरय० पर्या। छा० ० यस्यापर्या० ॥ ५ सं० त० म० ०ङ्गाः पञ्च श०॥