________________
३७-४१ 1 चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् ।
२३९ 'मिश्रादिपु' मिश्रप्रभृतिषु गुणस्थानकेषु अप्रमत्तगुणस्थानकापर्यन्तेषु 'निवृत्तौ' च अपूर्वकरणे च अपूर्वकरणाद्धायाः प्रथमे सङ्घय यतमभागे चेत्यर्थः, परतो निद्राद्विकबन्धव्यवच्छेदेन पड्विधबन्धासम्भवात् , तत एतेषु पड्विधो बन्धश्चतुर्विधः पञ्चविधो वा उदयः नवविधा सत्तेति द्वौ विकल्पो। "चउबंध तिगे चउ पण नस" तिं इहापूर्वकरणादायाः प्रथमे सङ्ख्य यतमे भागे मते सति निद्रा-प्रचलयोर्वन्धव्यवच्छेदो भवति, ततोऽत ऊर्ध्वमपूर्वकरणेऽपि चतुर्विध एव बन्धः । ततः 'त्रिके' अपूर्वकरणा-ऽनिवृत्तिबादर-सूक्ष्मसम्परायरूपे चतुर्विधो बन्धश्चतुर्विधः पञ्चविधो वा उदयः, "नवंस' इति नवविधा सत्तेति प्रत्येकं हो हो विकल्पो, अंश इति सत्ताऽभिधीयते । एतच्चोक्तमुपशपश्रेणीमधिकृत्य, क्षपक श्रेण्यां गुणस्थानकत्रयेऽपि पञ्चविधस्योदयस्य सूक्ष्मसम्पराये च नव विधायाः सत्ताया अप्राप्यमाणत्वात् 'दुसु जुयल छ स्संत" त्ति इह क्षपकरण्यामनिवृत्तिबादरसम्परायाद्धायाः सङ्ख्य यतमेषु भागेषु गतेषु सत्सु एकस्मिन भागे सङ्खये यतमेऽवतिष्ठमाने स्त्यानद्धित्रिकस्य सत्ताव्यवच्छेदो भवति, ततस्तदनन्तरमनिवृत्तिबादरेऽपि पड्विधैव सत्ता भवति, तत आह-"दुसु" ति 'द्वयोः' अनिवृत्तिबादर-सूक्ष्मसम्पराययोयुगलमिति बन्धउदयावुच्यते । चतुरिति चानुवर्तते, ततश्चतुर्विधो बन्धश्चतुर्विध उदयः “छ स्संत" त्ति पविधा सत्ता । अत्र पश्चविध उदयो न प्राप्यते, क्षपकाणामत्यन्तविशुद्धतया निद्राहिकस्योदयाभावात् । उक्तं च कर्मप्रकृतिचूर्णावुदीरणाकरणे---
'इंदियपञ्जत्तीए अणंतरे समए सव्यो वि निदापयलमुदीरगो भवइ, नवरं खीणकसायखवगे मोतणं, तेसि उदओ नत्थि नि काउं ।।४०।।
उवसंते चउ पण नव, खोणे चउरुदय छच्च चउ संतं । 'उपशान्ते' उपशान्तमोहे बन्धो न भवति, तस्य सूक्ष्मसम्पराये एव व्यवच्छिन्नत्वात्, ततः केवलश्चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता। उपशम'कोपशान्तमोहा यत्यन्तविशुद्धा न भवन्ति, ततस्तेषु निद्राद्विकस्याप्युदयः सम्भवति 'क्षीणे' क्षीणमोहे चतुर्विध उदयः पविधा सत्ता, एष विकल्पो द्विचरमसमयं यावत् । चरमसमये तु निद्रा-प्रचलयोः सत्ताव्यवच्छेदाद् अयं विकल्पः-चतुर्विध उदयश्चतुर्विधा सत्ता ।। ___वेयणियाउयगोए, विभाज
वेदनीयाऽऽयु-गोत्राणां बन्ध-उदय सत्तास्थानानि यथागमं गुरुस्थानकेषु विभजेत्' विकल्पयेत् ।
इन्द्रियपर्याप्त्या अनन्त रे समये सर्वाऽपि निद्रा-प्रचलयोरुदीरको भवति, नवरं क्षीणःजाय-क्षपकान मुक्त्वा , तेषामुदयो नास्तीति कृत्वा ।। २ त. म००मके उप० ।।