Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 499
________________ २०६ मलयगिरिमहर्षिविनिर्मित विवृत्युपेत गाथा विहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकं स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभगं सुस्वरम् आदेयं यशःकीर्ति-अयशःकीत्यों रेकतरं निर्माणमिति । अस्यां चैकोनत्रिंशति त्रिप्रकारायामपि सामान्येन पड्भिः संस्थानः पड़भिः संहननैः प्रशस्ता-प्रशस्तविहायोगतिभ्यां स्थिराऽस्थिराभ्यां शुभा-ऽशुभाभ्यां सुभग-दुर्भगाभ्यां सुस्वर-दुःस्वराभ्यां आदेयाऽनादेयाभ्यां यश कीर्ति-अयश-कीर्तिभ्यामष्टाधिकपट्चत्वारिंशच्छतसङ्ख्याः ४६०८ भङ्गा वेदितव्याः । यैव तृतीया एकोनत्रिंशदुक्ता सेव तीर्थकरसहिता त्रिंशत् । अत्र च स्थिरा ऽस्थिरशुभा-ऽशुभ-यशःकीर्ति-अयशःकीर्तिपदेरष्टो भङ्गाः । सर्वसङ्ख्यया मनुष्यगतिप्रायोग्यबन्धस्थानेषु भङ्गाः षट्चत्वारिंशच्छतानि सप्तदशाधिकानि ४६१७ । उक्तं च पणुवीसयम्मि एको, छायालसया अडत्तर गुतीसे । मणुतीसेऽट्ठ उ मवे, छायालमया उ सत्तरसा ॥ तथा देवगतिप्रायोग्यं बध्नतश्चत्वारि बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्राष्टाविंशतिरियम्-देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः क्रियं वैक्रियाङ्गोपाङ्ग तैजस-कामणे समचतुरस्रसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु पराघातम् उपघातम् उच्छवासनाम प्रशस्तविहायोगतिः सनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम स्थिराऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभगं सुस्वरम् आदेयं यशःकीर्ति-अयशःकीयोरेकतरं निर्माणमिति । एतासां समुदाय एकं बन्धस्थानम् । एतच्च मिध्यादृष्टि सासादन-मिश्रा-ऽविरतसम्यग्दृष्टि-देशविर त-सर्वविरतानां देवगतिप्रायोग्यं बध्नतामवसेयम् । अत्र स्थिराऽस्थिर-शुभा-ऽशुभयश कीर्ति-अयशःकीर्तिपदैरष्टौ भङ्गाः । एषैवाष्टाविंशतिस्तीर्थकरसहिता एकोनत्रिंशद् भवति, अत्रापि त एवाष्टौ भङ्गाः । नवरमेनां देवगतिप्रायोग्यां बध्नन्तोऽविरतसम्यग्दृष्टयादयो बध्नन्ति। त्रिंशत पुनरियम्-देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियं वैक्रियाङ्गोपाङ्गम् आहारकम् आहारकाङ्गोपाङ्ग तैजस कामणे समचतुरस्रसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु उपघातं पराघातम् उच्छवामनाम प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम शुभनाम स्थिरनाम सुभगनाम सुस्वरनाम आदेयनाम यशःकीर्तिनाम निर्माणनामेति । एतासां त्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम् । एतच देवगतिप्रायोग्यं बनतोऽप्रमत्तसंयतस्याऽपूर्वकरणस्य वा वेदितव्यम् । अत्र सर्वाण्यपि शुभान्येव कर्माणि बन्धमाया न्तीति कृत्वा एक एव भङ्गः। एषैव त्रिंशत् तीर्थकरसहिता एकत्रिंशद् भवति, अत्राप्येक एव भङ्गः । सर्वसङ्ख्यया देवगति: १ पञ्चविंशतावेकः षट्चत्वारिशच्छतानि अष्टोत्तराणि एकोनत्रिंशति । मनुष्यत्रिंशति भष्टौ तु सर्वे षट्चत्वारिंशच्छतानि तु सप्तदश ॥ २ मुद्रि० छा० ०रतानां सर्वविरतानां । ० सं० सं० १ रताना देवग० ॥ ३ सं० सं० १ त० न्तीति एक ए० ॥

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602