________________
२०६ मलयगिरिमहर्षिविनिर्मित विवृत्युपेत
गाथा विहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकं स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभगं सुस्वरम् आदेयं यशःकीर्ति-अयशःकीत्यों रेकतरं निर्माणमिति । अस्यां चैकोनत्रिंशति त्रिप्रकारायामपि सामान्येन पड्भिः संस्थानः पड़भिः संहननैः प्रशस्ता-प्रशस्तविहायोगतिभ्यां स्थिराऽस्थिराभ्यां शुभा-ऽशुभाभ्यां सुभग-दुर्भगाभ्यां सुस्वर-दुःस्वराभ्यां आदेयाऽनादेयाभ्यां यश कीर्ति-अयश-कीर्तिभ्यामष्टाधिकपट्चत्वारिंशच्छतसङ्ख्याः ४६०८ भङ्गा वेदितव्याः । यैव तृतीया एकोनत्रिंशदुक्ता सेव तीर्थकरसहिता त्रिंशत् । अत्र च स्थिरा ऽस्थिरशुभा-ऽशुभ-यशःकीर्ति-अयशःकीर्तिपदेरष्टो भङ्गाः । सर्वसङ्ख्यया मनुष्यगतिप्रायोग्यबन्धस्थानेषु भङ्गाः षट्चत्वारिंशच्छतानि सप्तदशाधिकानि ४६१७ । उक्तं च
पणुवीसयम्मि एको, छायालसया अडत्तर गुतीसे । मणुतीसेऽट्ठ उ मवे, छायालमया उ सत्तरसा ॥
तथा देवगतिप्रायोग्यं बध्नतश्चत्वारि बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्राष्टाविंशतिरियम्-देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः क्रियं वैक्रियाङ्गोपाङ्ग तैजस-कामणे समचतुरस्रसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु पराघातम् उपघातम् उच्छवासनाम प्रशस्तविहायोगतिः सनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम स्थिराऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभगं सुस्वरम् आदेयं यशःकीर्ति-अयशःकीयोरेकतरं निर्माणमिति । एतासां समुदाय एकं बन्धस्थानम् । एतच्च मिध्यादृष्टि सासादन-मिश्रा-ऽविरतसम्यग्दृष्टि-देशविर त-सर्वविरतानां देवगतिप्रायोग्यं बध्नतामवसेयम् । अत्र स्थिराऽस्थिर-शुभा-ऽशुभयश कीर्ति-अयशःकीर्तिपदैरष्टौ भङ्गाः । एषैवाष्टाविंशतिस्तीर्थकरसहिता एकोनत्रिंशद् भवति, अत्रापि त एवाष्टौ भङ्गाः । नवरमेनां देवगतिप्रायोग्यां बध्नन्तोऽविरतसम्यग्दृष्टयादयो बध्नन्ति। त्रिंशत पुनरियम्-देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियं वैक्रियाङ्गोपाङ्गम् आहारकम् आहारकाङ्गोपाङ्ग तैजस कामणे समचतुरस्रसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु उपघातं पराघातम् उच्छवामनाम प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम शुभनाम स्थिरनाम सुभगनाम सुस्वरनाम आदेयनाम यशःकीर्तिनाम निर्माणनामेति । एतासां त्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम् । एतच देवगतिप्रायोग्यं बनतोऽप्रमत्तसंयतस्याऽपूर्वकरणस्य वा वेदितव्यम् । अत्र सर्वाण्यपि शुभान्येव कर्माणि बन्धमाया न्तीति कृत्वा एक एव भङ्गः। एषैव त्रिंशत् तीर्थकरसहिता एकत्रिंशद् भवति, अत्राप्येक एव भङ्गः । सर्वसङ्ख्यया देवगति:
१ पञ्चविंशतावेकः षट्चत्वारिशच्छतानि अष्टोत्तराणि एकोनत्रिंशति । मनुष्यत्रिंशति भष्टौ तु सर्वे षट्चत्वारिंशच्छतानि तु सप्तदश ॥ २ मुद्रि० छा० ०रतानां सर्वविरतानां । ० सं० सं० १ रताना देवग० ॥ ३ सं० सं० १ त० न्तीति एक ए० ॥