________________
२४ ] चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् ।
२०५ पूयों पञ्चेन्द्रियजातिः औदारिकम् ओदारिकाङ्गोपाङ्ग तैजस-कार्मणे षण्णां संस्थानानामेकतमत् संस्थानं पण्णां संहननानामेकतमत् संहननं वांदिचतुष्टयम् अगुरुलघु उपघातं पराघातम् उच्छ्वासनाम प्रशस्ता-ऽप्रशस्तविहायोगत्योरेकतरा त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकं स्थिराऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभग-दुर्भगयोरेकतरं सुस्वर दुःस्वरयोरेकतरम् आदेयाऽनादेययोरेकतरं यशःकीर्ति-अयशःकीयो रेकतरं निर्माणमिति । एतासामेकोनत्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम् । एतच्च मिथ्यादृष्टेः पर्याप्ततिर्यक्पञ्चेन्द्रियप्रायोग्यं बनतो वेदितव्यम् । यदि पुनः सासादनो बन्धको भवति तर्हि तस्य पश्चानामाद्यानां संस्थानानामन्यतमत् संस्थानं पश्चानां संहननानामन्यतमत् संहननमिति वक्तव्यम् , "हुंडं असंपत्तं व सासणो न बंधइ" इति वचनात् । अस्यां चैकोनत्रिंशति सामान्येन षडभिः संस्थानः पभिः संहननैः प्रशस्ता-ऽप्रशस्तविहायोगतिभ्यां स्थिरा-ऽस्थिराभ्यां शुभा-ऽशुभाभ्यां सुभग-दुर्भगाभ्यां सुस्वरदुःस्वराभ्यां आदेया-उनादेयाभ्यां यशःकीर्ति-अयश कीर्तिभ्यां भङ्गा अष्टाधिकपटचत्वारिंशच्छतसङ्ख्या वेदितव्याः ४६०८ । एपैवे कोनत्रिंशद् उद्योतसहिता त्रिंशद् भवति, अत्रापि मिथ्यादृष्टि-सासादनानधिकृत्य तथैव विशेषोऽवगन्तव्यः, सामान्येन च भङ्गा अष्टाधिकषट्चत्वारिंशच्छतसङ्ख्याः ४६०८ । उक्तं च
'गुणतीसे तीसे वि य, भंगा अट्टाहिया छयालसया ।
पंचिंदियतिरिजोगे, पणवीसे बंधि भंगिक्को ॥ सर्वसङ्ख्यया द्वानवतिशतानि सप्तदशाधिकानि ६२१७ । सर्वस्यां तिर्यग्गतो सर्वसङ्ख्यया भङ्गाः त्रिनवतिशतान्यष्टाधिकानि ९३०८ ।
तथा मनुष्यगतिप्रायोग्यं बध्नतस्त्रीणि बन्धस्थानानि, तद्यथा-पञ्चविंशतिः एकोनत्रिशत त्रिंशत् । तत्र पञ्चविंशतिर्यथा प्राग् अपर्याप्तकद्वीन्द्रियप्रायोग्यं बनतोऽभिहिता तथैवावगन्तव्या। नवग्मत्र मनुष्यगतिर्मनुष्यानुपूर्वी पञ्चेन्द्रियजातिरिति वक्तव्यम् । एकोनत्रिंशत् त्रिधा-एका मिथ्यादृष्टीन बन्धकानाश्रित्य वेदितव्या, द्वितीया सासादनान , तृतीया सम्यग्मिथ्यादृष्टीन अविग्तसम्यग्दृष्टीन वा । तत्राये द्वे प्रागिर भावनीये । तृतीया पुनरियम्-मनुष्यगतिः मनुष्यानुपूर्वी पञ्चेन्द्रियजातिः औदारिकम् औदारिकाङ्गोपाङ्ग तेजस-कामणे समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं वर्णादिचतुष्टयम् अगुरुलघु उपघातं पराघातम् उच्छ्वासनाम प्रशस्त
१ सं० म० ०ञ्चानां संस्था० ॥ २ सं० १ त० ०ञ्चानामाद्यानां संहनना० ॥ ३ सं० छा० व्यम् । अस्यां ।। ४ हुण्डं असम्प्राप्तं वा सासादनो न बध्नाति ॥ ५ एकोनत्रिंशत् त्रिंशदपि च भङ्गा अष्टाधिकानि षट्चत्वारिंशच्छतानि । पञ्चेन्द्रियतिर्यग्योग्ये पञ्चविंशतो बन्धे भङ्ग एकः ।।