________________
२०४ मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा चातप-उद्योत-स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यश कीर्ति-अयशःकीर्तिपदैरवसेयाः, आतप-उद्योताभ्यां च सह सूक्ष्म-साधारणबन्धो न भवति, ततस्तदाश्रिता विकल्पा अत्र न प्राप्यन्ते । एकेन्द्रियाणां सर्वसङ्ख्या भङ्गाश्चत्वारिंशत् , तदुक्तम्
'चत्तारि वीस सोलस, भंगा एगिदियाण चत्ताला | द्वीन्द्रियप्रायोग्यं बध्नतो बन्धस्थानानि त्रीणि, तद्यथा-पञ्चविंशतिः एकोनत्रिंशत् त्रिंशत् । तत्र तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः औदारिक-तेजस-कारणानि हुण्डसंस्थान सेवातसंहननम् औदारिकाङ्गोपाङ्गवर्णादिचतुष्टयम् अगुरुलघु उपघातनाम त्रसनाम बादरनाम अपर्याप्तकनाम प्रत्येकनाम अस्थिरम् अशुभं दुर्भगम् अनादेयम् अयशःकीर्तिः निर्माणमिति । एतासां पञ्चविंशतिप्रकृतीनां समुदाय एक बन्धस्थानम् , तचापयर्याप्तकद्वीन्द्रियप्रायोग्यं बनतो मिथ्या दृष्टेरवसेयम् । अपर्याप्तकेन च सह परावर्तमानप्रकृतयोऽशुभा एव बन्धमायान्तीति कृत्वा अत्रैक एव भङ्गः । एपेव पञ्चविंशतिः पराघात-उच्छ्वासा-ऽप्रशस्तविहायोगति-पर्याप्तक-दुःस्वरमहिता अपर्याप्तकरहिता एकोनत्रिंशद् भवति, नवरमेवमेपा वक्तव्या-तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः औदारिकम् औदारिकाङ्गोपाङ्गं तेजस-कार्मणे हुण्डसंस्थान सेवार्तसंहननं वर्णादिचतुष्टयम् अगुलघु पराघातम् उपधातम् उच्छ्वासनाम अप्रशस्तविहायोगतिः सनाम बादरनाम पर्याप्तकनाम प्रत्येकं स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं दुःस्वरं दुर्भगम् अनादेयं यशःकीर्तिअयशकीयो रेकतरं निर्माणमिति । एतासामेकोनत्रिंशत्प्रकृतीनां समुदाय एक बन्धस्थानम् , तच्च पर्याप्तकद्वीन्द्रियप्रायोग्यं वध्नतो मिथ्यादृष्टेः प्रत्येतव्यम् । अत्र स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयश कीर्तिपदेष्टौ भङ्गाः । सैव एकोनत्रिंशद् उद्योतसहिता त्रिंशत् , अत्रापि त एवाष्टो भङ्गाः, सर्वसङ्घय या सप्तदश । एवं त्रीन्द्रियप्रायोग्यं चतुरिन्द्रियप्रायोग्यं च बनतो मिथ्यादृष्टेस्त्रीणि त्रीणि बन्धस्थानानि वाच्यानि, नवरं त्रीन्द्रियाणां त्रीन्द्रियजातिरभिलपनीया चतुरिन्द्रियाणां चतुरिन्द्रियजातिः, भङ्गाथ प्रत्येकं सप्तदश सप्तदश, सर्वसङ्ख्यया एकपञ्चाशत् । उक्तं च
एगऽ अह विगलिंदियाण इगवण्ण तिण्हं पि । तिर्यग्गतिपञ्चेन्द्रियप्रायोग्यं बध्नतस्त्रीणि बन्धस्थानानि । तद्यथा-पञ्चविंशतिः एकोनत्रिंशत् त्रिशत् । तत्र पञ्चविंशतिः द्वीन्द्रियप्रायोग्यं बध्नत इव वेदितव्या, नवरं द्वीन्द्रियजातिस्थाने पञ्चेन्द्रियजातिवक्तव्या, तत्र चैको भङ्गः । एकोनत्रिंशत् पुनरियम्-तिर्यग्गति-तिर्यगानु
१ चत्वारि विंशतिः षोडश भङ्गा एकेन्द्रियाणां चत्वारिंशत् ।।
२ सं सं० १ त० ०न्तीति, अत्रै ॥ ३ एकोऽष्टौ अष्टौ विकलेन्द्रियाणां एकपञ्चाशत् त्रयाणामपि ।। ४ मुद्रि० ०त एव वे०।।