________________
२०३
२२-२४]
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् । स्पर्शा अगुरुलघु उपघातनाम स्थावरनाम सूक्ष्म-बादरयोरेकतरम् अपर्याप्तकनाम प्रत्येक साधारणयोरेकतरम् अस्थिरनाम अशुभनाम दुभंगनाम अनादेयनाम अयशःकीर्तिनाम निर्माणनाम । एतासां त्रयोविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् , एतच्चापर्याप्तकप्रायोग्यं बध्नतो मिथ्याप्टेरवसेयम् । अत्र भङ्गाश्चत्वारः, तथाहि-बादरनाम्नि बध्यमाने एका त्रयोविंशतिः प्रत्येकनाम्ना सह प्राप्यते, द्वितीया साधारणनाम्ना, एवं सूक्ष्मनाम्न्यपि बध्यमाने द्वे त्रयोविंशति, सर्वसङ्ख्यया चतस्रः । एव त्रयोविंशतिः पराघात-उच्छ्वाससहिता पञ्चविंशतिः । नवरमेवमभिलपनीया-- तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिक-तैजस-कार्मणानि हुण्डसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु उपघातनाम पराघातनाम उच्छ्वासनाम स्थावरनाम बादर-सूक्ष्मयोरेकतरं पर्याप्तकं प्रत्येक साधारणयोरेकतरं स्थिरा-ऽस्थिग्योरेकतरं शुभाऽऽशुभयोरेकतरं यश कीर्ति-अयशःकीयोरेक'तरं दुर्भगम् अनादेयं निर्माणमिति । एतासां पञ्चविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् एतच्च पर्याप्तकैकेन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेरवगन्तव्यम् । अत्र भङ्गा विंशतिः-तत्र बादरपर्याप्त-प्रत्येकेषु बध्यमानेषु स्थिरा-ऽस्थिर-शुभा--ऽशुभ-यशःकीर्ति-अयशःकीर्तिभिरष्टो भङ्गाः, तथाहि-बादर-पर्याप्प-प्रत्येक स्थिर-शुभेषु बध्यमानेषु यशःकीर्त्या सह एकः, द्वितीयोऽयशःकीया, एतौ च द्वौ भङ्गो शुभपदेन लब्धौ, एवमशुभपदेनापि द्वौ भङ्गो लभ्येते ततो जाताश्चत्वारः, एते चत्वारः स्थिरपदेन लब्धाः, एवमस्थिरपदेनापि चत्वारो लभ्यन्ते ततो जाता अष्टौ। एवं पर्याप्त-बादर-साधारणेषु बध्यमानेषु स्थिरा-ऽस्थिर-शुभा-ऽशुभा-ऽयशःकीर्तिपदेश्चत्वारः, यतः साधारणेन सह यशःकीर्तिबन्धो न भवति "नो सुहुमतिगेण जसं" इति वचनात् , ततस्तदाश्रिता विकल्पा न प्राप्यन्ते । सूक्ष्म-पर्याप्तनाम्नोर्वध्यमानयोः प्रत्येक साधारणस्थिराऽस्थिर-शुभा-शुभा-ऽयशःकीर्तिपदैरप्टो, सूक्ष्मेणापि सह यशःकीलेंन्धाभावादत्रापि तदाश्रिता विकल्पा न प्राप्यन्ते । तदेवं सर्वसङ्ख्यया पश्चविंशतिबन्धे विंशतिर्भङ्गाः । एपेव पञ्चविंशतिरातप-उद्योतान्यतरसहिता पड्विंशतिः, नवरमेवमभिलपनीया-तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिक-तैजस-कार्मणानि हुण्डसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु पराघातम् उपघातम् उच्छ्वासनाम स्थावरनाम आतप-उद्योतयोरेकतरं बादरनाम पर्याप्तकनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं दुर्भगम् अनादेयं यशःकीर्ति-अयशःकीयो रेकतरं निर्माणमिति । एतासां च पड्विशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् । एतच्च पर्याप्तकैकेन्द्रियप्रायोग्यमातप-उद्यो तान्यतरसहितं बध्नतो मिथ्यादृष्टेरवगन्तव्यम् । अत्र भङ्गाः पोडश, ते
१ केपुचिदादर्शेषु कतरा केषुचिद् कतरं एवमग्रेऽपि ।। २ नो सूक्ष्मत्रिकेण यशः । ३ सं० १ त० ताभ्यां स०॥