________________
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा
तस्मिन् द्वे, ते अप्यन्तमुहूर्तं कालं यावत् सत्यौ । एकविधबन्धे पुनः पञ्च सत्तास्थानान्यमूनि, तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः द्वे एका च । तत्राद्यानि त्रीणि प्रागिवोपशमश्रेण्याम् | शेषे तु द्वे क्षपकथण्याम्, ते चैवम्-संज्वलनमायायाः प्रथमस्थितावावलिकाशेषायां बन्ध - उदय उदीरणा युगपद् व्यवच्छेदमुपयान्ति, व्यवच्छिन्नासु च तासु बन्ध एकविंधो भवति, संज्वलनमायाश्च तदानीं प्रथमस्थितिगतमावलिकामात्रं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत् समस्तं क्षीणम्, तदपि च सत् समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयम्रुपगमिष्यति, यावच्च न क्षयमुपयाति तावद् द्वे 'सती, क्षीणे तु तस्मिन्नेका प्रकृतिः संज्वलनलोभरूपा, सती ।
२०२
"चत्तारि य बंधवोच्छेए" बन्धव्यवच्छेदे' इति बन्धाभावे सूक्ष्मसम्परायगुणस्थाने चत्वारि सत्तास्थानानि तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः एका च । तत्राद्यानि त्रीणि प्रागिवोपशमश्रण्याम् | एका तु संज्वलन लोभरूपा प्रकृतिः क्षपकथं ण्याम् ।। २२ ।।
१
तदेवं कृता संवेधचिन्ता । सम्प्रत्युपसंहारमाह-
दसनवपन्नरसाई, बंधोदयसन्तपय डिठाणाइ' ।
भाइ मोहणिज्जे, इत्तो नामं परं वोच्छं ।। २३ ।।
बन्ध-उदय-सत्प्रकृतिस्थानानि यथासङ्ख्यं दश-नव पञ्चदश-सङ्ख्यानि प्रत्येकं संवेधद्वारेण' मोहनीय कर्मणि भणितानि । 'इतः परं ' अत ऊर्ध्वं 'नाम वक्ष्ये' नाम्नो बन्धादिस्थानानि वक्ष्ये ।। २३ ।।
तत्र प्रथमतो बन्धस्थाननिरूपणार्थमाह
तेवीस पण्णवीस, छब्बीसा अट्ठदीस गुणतीसा तीगतीस मेक्कं बंधट्ठाणाणि नामस्स ।। २४ ।।
नोटबन्धस्थानानि, तद्यथा - त्रयोविंशतिः पञ्चविंशतिः पविशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् एका च । अमूनि च तिर्यग्मनुष्यादिगतिप्रायोग्यतया अनेकप्रकाराणि ततस्तथैवोपदर्श्यन्ते । तत्र तिर्यग्गतिप्रायोग्यं बघ्नतः सामान्येन पञ्च बन्धस्थानानि तद्यथात्रयोविंशतिः पञ्चविंशतिः पविशतिः एकोनत्रिंशत् त्रिंशत् । तत्राप्येकेन्द्रियप्रायोग्यं बध्नत-स्त्रीणि बन्धस्थानानि, तद्यथा - त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः । तत्र त्रयोविंशतिरियम्तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिक- तैजस-कार्मणानि हुण्ड संस्थानं वर्ण-रस- गन्ध
१ सं० त० म० सत्यौ ॥ २० म० व्ण मोहनीयकर्मणि सर्वसंख्यया भ० ।। ३ गाथेयं सप्तति भाव्यस्य अष्टपञ्चाशत्तमी । ४ सं० १ छा० ०स उगुती० ॥