________________
२१-२२ ]
चन्द्रमित्रकृतं सप्ततिका प्रकरणम् ।
२०१
क्षपयति, स्त्रीवेद-नपुंसक वेदक्षयसमकालमेव च पुरुषवेदस्य बन्धो व्यवच्छिद्यते, तदनन्तरं च पुरुषवेद-हास्यादिषट्के युगपत् क्षपयति, यदि पुनः स्त्रीवेदेन क्षपकश्रणिं प्रतिपद्यते, ततः प्रथमतो नपुंसक वेदं क्षपयति, ततोऽन्तर्मुहूर्तेन स्त्रीवेदम्, स्त्रीवेदक्षयसमकालमेव च पुरुषवेदस्य बन्धव्यवच्छेदः, ततस्तदनन्तरं पुरुषवेद- हास्यादिषट्के युगपत् क्षपयति, यावच्च न झीयते तावदुभयत्रापि चतुर्विधबन्धे वेदोदयरहितस्य एकोदये वर्तमानस्य एकादशकं सत्तास्थः नमवाप्यते । पुरुपवेद- हास्यादिषट्कयोस्तु युगपत् क्षीणयोश्चतस्रः प्रकृतयः सत्यः । एवं च स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रणिं प्रतिपन्नस्य पञ्चप्रकृत्यात्मकं सत्तास्थानं नावाप्यते । यस्तु पुरुपवेदेन क्षपकश्रेणि प्रतिपद्यते तस्य पण्नोकषायक्षयसमकालं पुरुषवेदस्य बन्धव्यवच्छेदो भवति, ततस्तस्य चतुर्विधवन्धकाले एकादशरूपं सत्तास्थानं न प्राप्यते, किन्तु पञ्चप्रकृत्यात्मकम्, ताश्च पञ्च समययोनावलिका द्विकं यावत् सत्यो वेदितव्याः । ततः पुरुषवेदे क्षीणे चतस्रः, ता अप्यमुहूर्तं कालं यावत् सत्यः ' प्रतिपत्तव्याः |
“सेसेसु जाण पंचैव पत्तेयं पत्तेयं" शेषेषु त्रिविधद्विविधैकविधेषु बन्धेषु प्रत्येकं पञ्च पञ्च सत्तास्थानानि । तत्र त्रिविधबन्धे अमूनि-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः चतस्रः तिस्रः । तत्रादिमानि त्रीणि उपशमश्रेणिमधिकृत्य वेदितव्यानि । शेषे तु द्वे क्षपकण्याम्, ते चैवम्संज्वलनक्रोधस्य प्रथम स्थितावावलिकाशेषायां बन्ध-उदय उदीरणा युगपद् व्यवच्छेदमायान्ति, व्यवच्छिन्नासु च तासु बन्धस्त्रिविधो जातः संज्वलनक्रोधस्य च तदानीं प्रथमस्थितिगतमात्रलिकामात्रं समयद्वयोनावलिकाद्विकबद्धं च दलिकं मुक्त्वा अन्यत् सर्वं क्षीणम्, तदपि च सत् समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयमुपयास्यति, यावच्च न याति तावच्चतस्रः प्रकृतयः त्रिविधबन्धे सत्यः, क्षीणे तु तस्मिस्तिस्रः, ताश्रान्तमुहूर्त कालं यावदवगन्तव्याः । द्विविधबन्धे पुनरमूनि पञ्च सत्तास्थानानि, तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः तिस्रः द्वे च । तत्राद्यानि त्रीणि प्रागिव । शेषे तु द्वे क्षपकश्रेण्याम्, ते चैवम् -संज्वलनमानस्य प्रथमस्थितौ आवलिका मात्र शेषायां संज्वलनमानस्य बन्ध-उदय - उदीरणा युगपद् व्यवच्छिद्यन्ते, तासु च व्यवच्छिन्नासु बन्धो द्विविधो भवति, संज्वलनमानस्य च तदानीं प्रथमस्थितिगतमावलिकामात्रं समयद्वयोनावलिकाद्विकबद्धं च दलिकं सत्, अन्यत् सर्वं क्षीणम्, तदपि च सत् समयद्वयोनालिकाद्विकमात्रेण कालेन क्षयमापत्स्यते, यावच्च नापद्यते तावत् तिस्रः सत्यः, क्षीणे तु
१ सं० छा० "०त्योऽवगन्तव्याः । “से० । सं० १ त० त्यः । "से० ॥
२ छा० म० प्रागिवोपशमश्रेण्याम् | शे० ।। ३ सं० १ ० म००कं मुक्त्वा अ० ॥ ४ छा नाद्यापि क्षीयते ता० ॥
26