________________
मलयगिरि महर्षिविनिर्मित विवृत्युपेतं
[ गाथा:
अथ मनुष्याः क्षायिकसम्यक्त्वमुत्पाद्य यदा तिर्यक्षत्पद्यन्ते तदा तिरश्वोऽप्येकविंशतिः प्राप्यत एव तत् कथमुच्यते शेषाणि त्रयोविंशत्यादीनि सर्वाण्यपि न सम्भवन्ति ९ इति तद् अयुक्तम्, यतः क्षायिकसम्यग्दृष्टिस्तिर्यक्षु न सङ्घये यवर्षायुष्केषु मध्ये समुत्पद्यते, किन्त्वसङ्ख्ये यवर्षायुष्केषु न च तत्र देशविरतिः, तदभावाच्च न त्रयोदशबन्धकत्वम् । 'अत्र त्रयोदशबन्धे सत्तास्थानानि चिन्त्यमानानि वर्तन्ते तत एकविंशतिरपि त्रयोदशबन्धे तिर्यक्षु न प्राप्यते । तदुक्तं चूर्णौ
२००
एगवीसा तिरिक्खे संजयाऽसंजएस न संभवइ । कह ? भण्णइ - संखेजवासाउएसु तिरिक्खेसु खाइगसम्मद्दिट्ठी न उबवज्जइ, असंखेज्जवासा उसु उववज्जेज्जा, तस्स देसविरई नत्थि । इति ।
ये च मनुष्या देशविरतास्तेषां पञ्चकोदये त्रीणि सत्तास्थानानि । तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च । पट्कोदये सप्तोदये च प्रत्येकं पश्चापि सत्तास्थानानि । अष्टकोदये त्वेकविंशतिवर्जानि शेषाणि चत्वारि । तानि चाविरतसम्यग्टयु क्तभावनानुसारेण भावनीयानि । एवं नवबन्धकानामपि प्रमत्ता - प्रमत्तानां प्रत्येकं चतुष्कोदये त्रीणि त्रीणि सत्तास्थानानि, तद्यथाअष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च । पञ्चकोदये षट्कोदये च प्रत्येकं पञ्च पश्च सत्तास्थानानि । सप्तोदये त्वेकविंशतिवर्जानि शेषाणि चत्वारि सत्तास्थानानि वाच्यानि ||२१||
"पंचविहचउविहेसु छ छक्क" त्ति पञ्चविधे चतुर्विधे च बन्धे प्रत्येकं षट् षट् सत्तास्थानानि । तत्र च बधे अमूनि तद्यथा - अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः त्रयोदश द्वादश एकादश च । तत्राष्टाविंशतिः चतुर्विंशतिश्चौपशमिकसम्यग्दृष्टेरुपशमश्रेण्याम् | एकविंशतिरुपशमश्र ेण्यां क्षायिकसम्यग्दृष्टेः । क्षपकश्रेण्यां पुनरष्टौ कपाया यावद् न क्षीयन्ते तावदेकविंशतिः । अष्टसु कषायेषु क्षीणेषु पुनस्त्रयोदश । ततो नपुंसकयेदे क्षीणे द्वादश । ततः arat क्षीणे एकादश । पञ्चादीनि तु सत्तास्थानानि पञ्चविधबन्धे न प्राप्यन्ते, यतः पञ्चविधबन्धः पुरुषवेदे बध्यमाने भवति, यावच्च पुरुषवेदस्य बन्धस्तावत् षड् नोकषायाः सन्त एवेति । चतुर्विधवन्धे पुनरमूनि पट् सत्तास्थानानि तद्यथा - अष्टाविंशतिः चतुर्विंशति एकविंशतिः एकादश पञ्च चतस्रः । तत्राष्टाविंशति चतुर्विंशति - एकविंशतय उपशमश्रेण्याम् । एकादश पुनरेवं प्राप्यन्ते-इह कश्चिद् नपुंसक वेदेन क्षपकथं णि प्रतिपन्नः, स च स्त्रीवेद-नपुसकवेदौ युगपत्
,
१ सं० मुद्रि० अथ च ॥ २ एकविंशतिः तिर्यक्षु संयतासंयतेषु न सम्भवति, कथम् ? भण्यतेसंख्येय वर्षायुकेषु तिर्यक्षु क्षायिकसम्यग्दृष्टिर्न उपपद्यते, असंख्येय वर्षायुष्केषु उपपद्येत, तस्य देशविरतिर्नास्ति ॥