________________
२४-२५ ]
प्रायोग्यबन्धस्थानेषु भङ्गा अष्टादश । तदुक्तम् —
चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् ।
"अट्ठट्ठ एक एक्कग, भंगा अट्ठार देव जोगेसु ।
२०७
तथा नरकगतिप्रायोग्यं बध्नत एकं बन्धस्थानं अष्टाविंशतिः, सा चेयम् - नरकगतिः नरकानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियं वैक्रियाङ्गोपाङ्ग तैजस- कार्मणे हुण्डसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु उपघातं पराघातम् उच्छ्वासनाम अप्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम अस्थिरम् अशुभं दुर्भगं दुःस्वरम् अनादेयम् अयशः कीर्तिः निर्माणमिति । एतासामष्टाविंशतिप्रकृतीनामेकं बन्धस्थानम् एतच्च मिथ्यादृष्टेर सेयम् । अत्र सर्वाण्यप्यशुभान्येव कर्माणीत्येक एव भङ्गः । एकं तु बन्धस्थानं यशः कीर्तिलक्षणम्, तच्च देवगतिप्रायोग्यबन्धे व्यवच्छिन्ने अपूर्वकरणादीनां त्रयाणामवगन्तव्यम् ॥ २४ ॥
सम्प्रति कस्मिन् बन्धस्थाने कति भङ्गाः सर्वसङ्ख्यया प्राप्यन्ते । इति चिन्तायां तन्नि रूपणार्थमाह
'चउ पणवीसा सोलस, नव बाण' उईसया य अडयाला । एयालुत्तर छायांलसया एक्केक्क बंधविही || २५ ।।
त्रयोविंशत्यादिषु बन्धस्थानेषु यथासङ्ख्यं 'चतुरादिसङ्ख्या बन्धविधयः' बन्धप्रकाराः बन्धभङ्गा वेदितव्याः । तत्र त्रयोविंशतिबन्धस्थाने भङ्गाश्चत्वारः, ते चै केन्द्रियप्रायोग्यमेव बघ्नतोऽवसेयाः, अन्यत्र त्रयोविंशतिबन्धस्थानस्याप्राप्यमाणत्वात् । पञ्चविंशतिबन्धस्थाने पञ्चविंशतिर्भङ्गाः, तत्रैकेन्द्रियप्रायोग्यां पञ्चविंशति वघ्नतो विंशतिः, अपर्याप्तद्वि-त्रि- चतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रियमनुष्यप्रायोग्यां च बध्नतामेकैक इति सर्वसङ्ख्यया पञ्चविंशतिः । षड्विंशतिबन्धस्थाने भङ्गाः षोडश, ते चैकेन्द्रियप्रायोग्यमेव बघ्नतोऽवसेयाः, अन्यत्र पविशतिबन्धस्थानस्याप्राप्यमाणत्वात् । अष्टाविंशतिबन्धस्थाने भङ्गा नव-तत्र देवगतिप्रायोग्यामष्टाविंशतिं बघ्नतोऽष्टौ नरकगतिप्रायोग्यां तु बध्नत एक इति । एकोनत्रिंशद्बन्धस्थाने भङ्गा अष्टचत्वारिंशदधिकानि द्विनवतिशतानि ९२४८ - तत्र तिर्यक् पञ्चेन्द्रियप्रायोग्यामेकोनत्रिंशतं बघ्नतोऽष्टाधिकानि षट्चत्वारिंशच्छतानि ४६०८, मनुष्यगतिप्रायोग्यामपि बघ्नतोऽष्टाधिकानि षट्चत्वारिंशच्छतानि ४६०८, द्वि-त्रि- चतुरिन्द्रियप्रायोग्यां देवगतिप्रायोग्यां च तीर्थकरसहितां बध्नतां प्रत्येकमष्टावष्टाविति ।
१ अष्टावष्टावेक एकको भङ्गा अष्टादश देवयोग्येषु ॥ २ सं० १ ० ०वजुग्गे | सं०म० छा० ०वजोग्गे || ३ गाथेयं सप्ततिकाभाष्ये अशीतितमी । ४ सं० सं० १ छा० उइयस० ॥ ५ मुद्रि० ०ध्नतो मिथ्यादष्टे विंशः ॥ ६ छा० मुद्रि० व्ग्यामेव ॥ ७ मुद्रि० ० एवेति ॥