________________
२०६ मलयगिरिमहर्षिविनिर्मितविवृत्युपेत
[ गाथा त्रिंशति बन्धस्थाने भङ्गा एकचत्वारिंशदधिकानि षट्चत्वारिंशच्छतानि ४६४१-तत्र तिर्य
पञ्चेन्द्रियप्रायोग्यां त्रिंशतं बनतोऽष्टाधिकानि षट्चत्वारिंशच्छतानि ४६०८,द्वि-त्रि-चतुरिन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां च बनता प्रत्येकमष्टावष्टौ, देवगतिप्रायोग्यामाहारकसहितां त्रिंशतं बनत एक इति । तथा एकत्रिंशति बन्धस्थाने एकः । एकविधे चैकः । सर्वसङ्ख्यया सर्वबन्धस्थानेषु भङ्गास्त्रयोदश सहस्राणि नव शतानि पश्चचत्वारिंशदधिकानि १३९४५ इति ।। २५ ।। तदेवमुक्तानि सप्रभेदं बन्धस्थानानि । सम्प्रत्युदयस्थानप्रतिपादनार्थमाह'घोसिगवीसा चउचीसगाइ एगाहिया उ इगतीसा ।
उदयट्ठाणाणि भवे, नव अट्ठ य हुति नामस्स ॥ २६ ।। 'नाम्नः' नामकर्मण उदयस्थानानि द्वादश । तद्यथा--विंशतिः एकविंशतिः चतुर्विंशत्यादयः 'एकाधिकाः' एकेकाधिकास्तावद् वक्तव्या यावदेकत्रिंशत् , तद्यथा-चतुर्विंशतिः पञ्चविंशतिः षड्विशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् , तथा नव अष्टौ च । एतानि चैकेन्द्रियाद्यपेक्षया नानाप्रकाराणीति तानाश्रित्य सप्रपञ्चमुपदय॑न्ते
तत्रैकेन्द्रियाणामुदयस्थानानि पञ्च, तद्यथा---एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः पड्विशतिः सप्तविंशतिश्च । तत्र तैजस-कामेणे अगुरुलघु स्थिरा-ऽस्थिरे शुभा-ऽशुभे वर्ण-रस-गन्ध-स्पर्शा निर्माणमित्येता द्वादश प्रकृतय उदयमाश्रित्य ध्रुवाः । एताः तिर्यग्गतिः तिर्यगानुपूर्वी स्थावरनाम एकेन्द्रियजातिः बादर-सूक्ष्मयोरेकतरं पर्याप्ता-ऽपर्याप्तयोरेकतरं दुर्भगम् अनादेयं यशःकीर्तिअयशःकीयो रेकतरा इत्येतन्नवप्रकृतिसहिता एकविंशतिः। अत्र भङ्गाः पञ्च-बादर-सूक्ष्माभ्यां प्रत्येकं पर्याप्ता-ऽपर्याप्ताभ्यामयशःकीर्त्या सह चत्वारः, बादर-पर्याप्त यशःकीर्तिभिः सह एक इति । सूक्ष्मा-ऽपर्याप्ताभ्यां सह यशःकीर्तेरुदयो न भवतीति कृत्वा तदाश्रिता विकल्पा न प्राप्यन्ते । एषा चैकविंशतिरेकेन्द्रियस्यापान्तरालगतौ वर्तमानस्य वेदितव्या । ततः शरीरस्थस्यौदारिकशरीरं हुण्डसंस्थानम् उपघातं प्रत्येक साधारणयोरेकतरमिति चतस्रः प्रकृतयः प्रक्षिप्यन्ते तिर्यगानुपूर्वी चापनीयते ततश्चतुर्विंशतिर्भवति । अत्र च भङ्गा दश, तद्यथा-बादरपर्याप्तस्य प्रत्येक-साधारणयश कीर्ति-अयशःकीर्तिपदेश्चत्वारः, अपर्याप्तवादरस्य प्रत्येक-साधारणाभ्यामयशःकीर्त्या सह द्वौ, सूक्ष्मस्य पर्याप्ता-ऽपर्याप्त-प्रत्येक-साधारणैरयशःकी, सह चत्वार इति दश । बादरवायुकायिकस्य वैक्रियं कुर्वत औदारिकस्थाने वैक्रियं वक्तव्यम् , ततश्च तस्यापि चतुर्विंशतिरुदये प्राप्यते, केवलमिह बादर-पर्याप्त-प्रत्येका-ऽयशःकीर्तिपदे रेक एव भङ्गः । तेजस्कायिक-वायुकायिकयोः
१ गाथेयं सप्ततिकाभाष्ये अष्टाशीतितमी ॥ २ सप्ततिकाभाष्ये तु-०इ इगतीसगंत एगहिया ।। ३ सं० सं० १ त००वतीति तदा०॥