________________
२६ ]
चन्द्रमित्तकृतं सप्ततिकाप्रकरणम् ।
साधारण - यशः कीत्यु दयो न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते । सर्वसङ्ख्यया चतुर्विंशतौ एकादश भङ्गाः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः । अत्र भङ्गाः षट्, तद्यथा—बादरस्य प्रत्येक-साधारण-यशः कीर्ति- अयशःकीर्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येक साधारणाभ्यामयशः कीर्त्या सह द्वौ | तथा बादरवायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्यातस्य (ग्रन्थाग्रम् १२३८) पराघाते क्षिप्ते पञ्चविंशतिर्भवति, अत्र च प्राग्वदेक एव भङ्गः । सर्वसङ्ख्यया पञ्चविंशतौ सप्त भङ्गाः । ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वासे 'प्रक्षिप्ते षड्विशतिः, अत्रापि भङ्गाः प्रागिव षट् । अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासेऽनुदिते आतप - उद्योतयोरन्यतरस्मिन्नुदिते षड्विंशतिर्भवति । अत्रापि भङ्गाः षट्, तद्यथा-वादरस्योद्योतेन सहितस्य प्रत्येक साधारण - यशः कीर्ति - अयशः कीर्तिपदैश्चत्वारः; आतपसहितस्य च प्रत्येक यशः कीर्तिअयशः कीर्तिपदैर्द्रौौं । बादरवायुकायिकस्य वैक्रियं कुर्वतः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वासे प्रक्षिप्ते प्रागुक्ता पञ्चविंशतिः षड्विंशतिर्भवति, तत्र च प्राग्वदेक एव भङ्गः । तेजस्कायिक-वायुकायिकयोरातप-उद्योत-यशः कीर्तीनामुदयाभावात् तदाश्रिता विकल्पा न प्राप्यन्ते । सर्वसङ्ख्या षड्विशतौ त्रयोदश भङ्गाः । तथा प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वाससहितायां षड्विंशतौ आतपउद्योतयोरन्यतरस्मिन् प्रक्षिप्ते सति सप्तविंशतिर्भवति, अत्र भङ्गाः पड्, ये प्रागातप-उद्योतान्यतरसहितायां षड्विंशतौ प्रतिपादिताः । सर्वसङ्ख्यया चैकेन्द्रियाणां भङ्गाः द्विचत्वारिंशत् ४२ । उक्तं च
एगिदियउदयएस', पंच य एक्कार सत्त तेरस या । छक्कं कमसो भंगा, बायाला हुंति सव्वे विं 11
२०६
द्वीन्द्रियाणामुदयस्थानानि पट्, तद्यथा - एकविंशतिः पविशतिः अष्टाविंशतिः एकोनत्रिशत् त्रिंशद् एकत्रिंशत् । तत्र तिर्यग्गतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिस्त्रनाम बादरनाम पर्याप्ताऽपर्याप्तयोरेकतरं दुर्भगम् अनादेयं यशः कीर्ति - अयशः कीत्योरेकतरा इत्येता नव प्रकृतयो द्वादशसङ्ख्याभिधु' वोदयाभिः सह एकविंशतिः । एषा चापान्तरालगतौ वर्तमानस्य द्वीन्द्रियस्यावाप्यते । अत्र भङ्गास्त्रयः, तद्यथा - अपर्याप्तकनामोदये वर्तमानस्य अयशः कीर्त्या सह एकः, पर्याप्तनामोदये वर्तमानस्य यशः कीर्ति - अयशः कीर्तिभ्यां द्वाविति । तस्यैव च शरीरस्थस्य औदारिकम् औदारिकाङ्गोपाङ्ग' हुण्डसंस्थानं सेवार्तसंहननम् उपघातं प्रत्येकमिति पट् प्रकृतयः प्रक्षि
१ सं १ ० ०शतिः अत्र ।। २ सं स १ त० म० छा० ०से क्षिप्ते । एवमग्रेऽपि 'प्रक्षिप्ते' इत्येतत्स्थाने क्षिप्ते, 'क्षिप्ने' इत्येतत्स्थाने 'प्रक्षिप्ते' इति पाठान्तराणि सन्ति ॥ ३ एकेन्द्रियोदयेषु पञ्च चैकादश सप्त त्रयोदश च । षट् क्रमशो भङ्गा द्विचत्वारिंशद् भवन्ति सर्वेऽपि ॥
27