________________
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[गाथाः
प्यन्ते तिर्यगानुपूर्वी चापनीयते जाता षड्विंशतिः, अत्रापि भङ्गास्त्रयः, ते च प्रागिव द्रष्टव्याः । ततः शरीरपर्याप्त्या पर्याप्तस्य अप्रशस्तविहायोगति-पराघातयोः प्रक्षिप्तयोरष्टाविंशतिः, अत्र यशःकीर्ति-अयशःकीर्तिभ्यां द्वो भङ्गो, अपर्याप्तक-प्रशस्तविहायोगत्योरत्रोदयाभावात् । ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वासे प्रक्षिप्ते एकोनत्रिंशत् , अत्रापि तावेव द्वौ भङ्गो । अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत् , अत्रापि प्रागिव द्वौ भङ्गौ । सर्वेऽप्येकोनविंशति चत्वारो भङ्गाः। ततो भाषापर्याप्त्या पर्याप्तस्य उच्छ्वाससहितायामेकोनविंशति सुस्वर-दुःस्वरयोरेकृतरस्मिन् प्रक्षिप्ते त्रिंशद् भवति, अत्र सुस्वर-दुःस्वर-यशःकीर्तिअयशःकीर्तिपदेश्चत्वारो भङ्गाः । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य' स्वरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशद् भवति, अत्र यशःकीर्ति-अयशःकीर्तिविकल्पाभ्यां द्वौ भङ्गो, सर्वे त्रिंशति पड भङ्गाः। ततो भाषापर्याप्त्या पर्याप्त स्य स्वरसहितायां त्रिंशति उद्योतनाम्नि प्रक्षिप्ते एकत्रिंशद्भवति, अत्र सुस्वर-दुःस्वर यशःकीर्ति अयशःकीर्तिपदैश्चत्वारो भङ्गाः। सर्वसङ्ख्यया द्वीन्द्रियाणां द्वाविंशतिर्भङ्गाः । एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां च प्रत्येकं षट् षड् उदयस्थानानि भावनीयानि, नवरं द्वीन्द्रियजातिस्थाने त्रीन्द्रियाणां त्रीन्द्रियजातिः, चतुरिन्द्रियाणां चतुरिन्द्रियजातिरभिधातव्या, प्रत्येकं च भङ्गा द्वाविंशतिविंशतिरिति । सर्वसङ्ख्यया विकलेन्द्रियाणां भङ्गाः षटषष्टिः ६६ । तदुक्तम्
"तिग तिग दुग चउ छ चउ, विगलाण छसहि होइ तिण्हं पि । प्राकृततिर्यक्पञ्चेन्द्रियाणामुदयस्थानानि षट् , तद्यथा-एकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्र तिर्यग्गतिस्तिर्यगानुपूर्वी पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्ताऽपर्याप्तयोरेकतरं सुभग-दुर्भगयोरेकतरम् आदेया-ऽनादेययोरेकतरं यशःकीति-अयशःकीयोरेकनरा इत्येता नव प्रकृतयो द्वादशसङ्ख्याभिधं वोदयाभिः सह एकविंशतिः, एषा चापान्तरालगतो वर्तमानस्य तियेक्पञ्चेन्द्रियस्य वेदितव्या। अत्र भङ्गा नव-तत्र पर्याप्तकनामोदये वर्तमानस्य सुभग-दुर्भगाभ्यामादेया-उनादेयाभ्यां यशःकीर्ति-अयशःकीर्तिभ्यां चाष्टौ भङ्गाः, अपयांप्लकनामोदये वर्तमानस्य तु दुर्भगा-ऽनादेया-ऽयशःकीर्तिभिरेकः । ___ अपरे पुनराहुः-सुभगा-ऽऽदेये युगपदुदयमायातः दुर्भगा-ऽनादेये च, ततः पर्याप्तकस्य सुभगा-ऽऽदेययुगलदुर्भगा-ऽनादेययुगलाभ्यां यशःकीर्ति-अयश कीर्तिभ्यां च चत्वारो भङ्गाः,
१ सं० १ म० ०शद् भवति, अत्रा० ॥ २ सं० १ .पि तावेव ॥ ३ त००स्य दुःस्व० ॥ ४ त० स्य सुस्वर० ।। ५ त्रिकः त्रिको द्विकश्चत्वारः षट् चत्वारो विकलानां षट्षष्टिर्भवति त्रयाणामपि ।।