________________
२६ ]
चन्द्रर्षिमहत्तरकृतं सप्रतिकाप्रकरणम् ।
२११
अपर्याप्तस्य त्वेक इति, सर्वसङ्ख्यया पञ्च । एवमुत्तरत्रापि मतान्तरेण भङ्गवैषम्यं स्वधिया परिभावनीयम् ।
ततः शरीरस्थस्य आनुपूर्वीमपनीय औदारिकमौदारिकाङ्गोपाङ्ग षण्णां संस्थानानामेकतमत् संस्थानं पण संहननानामेकतमत् संहननम् उपघातं प्रत्येकमिति षट्कं प्रक्षिप्यते, ततो जाता पविशतिः । अत्र भङ्गानां द्वे शते एकोननवत्यधिके २८९ -- तत्र पर्याप्तस्य षभिः संस्थानैः षड्भिः संहननैः सुभग-दुर्भगाभ्यामादेयाऽनादेयाभ्यां यशः कीर्ति - अयशः कीर्तिभ्यां च द्वे शते भङ्गानामष्टाशीत्यधिके २८८, अपर्या' तकस्य हुण्डसंस्थान- सेवार्तसंहनन- दुर्भगा - ऽनादेयाऽयशःकीर्तिपदैरेक इति । तस्यामेव षड्विशतौ शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्ता प्रशस्तविहायोगत्योरन्यतरविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः, तत्र ये प्राक् पर्याप्तानां द्वे शते भङ्गानामष्टाशीत्यधिके २८८ उक्ते ते अत्र विहायोगतिद्विकेन गुणिते अवगन्तव्ये, तथा च सत्यत्र भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि ५७६ भवन्ति । ततः प्राणापानपर्याप्तथा पर्याप्तस्य उच्छ्वासे प्रक्षिप्ते एकोनत्रिंशत्, अत्रापि भङ्गाः प्रागिव पञ्च शतानि षट्सप्तत्यधिकानि ५७६ । अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशद् भवति, अत्रापि भङ्गाः पञ्चशतानि षट्सप्तत्यधिकानि ५७६ । सर्वसङ्ख्यया भङ्गानामेकोनत्रिंशति द्विपञ्चाशदधिकानि एकादश शतानि ११५२ । ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वर - दुःस्वरयोरन्यतरस्मिन् प्रक्षिप्ते त्रिंशद् भवति, अत्र ये प्रागुच्छ्वासेन पञ्च शतानि षट्सप्तत्यधिकानि ५७६ उक्तानि तान्येव स्वरद्विकेन गुण्यन्ते ततो जातानि द्विपञ्चाशदधिकान्येकादश शतानि १९५२ | अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशद् भवति, अत्रापि भङ्गानां प्रागिव पञ्च शतानि षट्सप्तत्यधिकानि ५७६ | सर्वसङ्ख्यया त्रिंशति भङ्गानां सप्तदश शतानि अष्टाविंशत्यधिकानि १७२८ । ततः स्वरसहितायां त्रिंशति उद्योतनाम्नि प्रक्षिप्ते एकत्रिंशद् भवति । अत्र ये पाक् स्वरसहितायां त्रिंशति भङ्गा द्विपञ्चाशदधिकैकादशशतसङ्ख्याः ११५२ उक्तास्त एवात्रापि द्रष्टव्याः । सर्वसङ्ख्यया प्राकृततिर्यक्पञ्चेन्द्रियाणां उदयभङ्गा एकोनपञ्चाशच्छतानि षडधिकानि ४९०६ ।
तथा इदानीं तेषामेव तिर्यक्पपञ्चेन्द्रियाणां वैक्रियं कुर्वतामुदयस्थानानि पञ्च, तद्यथापञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । तत्र वैक्रियं वैक्रियाङ्गोपाङ्ग समचतुरस्रम् उपघातं प्रत्येकमिति पञ्च प्रकृतयः प्रागुक्तायां तिर्यक्पञ्चेन्द्रिय योग्यायामेकविंशतौ
१ सं० सं० २ छा० मुद्रि० कहुण्ड || २ सं० १ त० म० ०दये म० । ३ सं० १ सं० त० ०था
तेषामे० ॥