________________
२१२
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथा:
प्रक्षिप्यन्ते तिर्यगानुपूर्वी चापनीयते ततः पञ्चविंशतिर्भवति, अत्र सुभग-दुर्भगाभ्यामादेया- नादेयाभ्यां यशःकीर्ति - अयशः कीर्तिभ्यां चाष्टौ भङ्गाः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिर्भवति, तत्रापि प्रागिवाष्टौ भङ्गाः । ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वासनाम्नि प्रक्षिप्तेऽष्टाविंशतिर्भवति, अत्रापि प्रागिवाष्टौ भङ्गाः । अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासेऽनुदिते उद्योतनाम्नि तूदितेऽष्टाविंशतिर्भवति, अत्रायष्टौ भङ्गाः । सर्वसङ्ख्ययाऽष्टाविंशतौ भङ्गाः षोडश । ततो भाषापर्याप्त्या पर्याप्तस्य उच्छ्वाससहितायामष्टाविंशतौ सुस्वरे प्रक्षिप्ते एकोनत्रिंशत्, अत्रापि प्रागिवाष्टौ भङ्गाः । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत् ; अत्रापि प्रागिवाष्टौ भङ्गाः । सर्वसङ्ख्या एकोनविंशति षोडश । ततः सुस्वरसहितायामेकोनत्रिंशति उद्योते प्रक्षिप्ते त्रिंशत्, अत्रापि प्रागिवाष्टौ भङ्गाः | सर्वसङ्ख्यया वैक्रियं कुर्वतां षट्पञ्चाशद् भङ्गाः ५६ । सर्वेषां तिर्यक्पञ्चेन्द्रियाणां सर्वसङ्ख्यया एकोनपञ्चाशच्छतानि द्विपष्टयधिकानि ४९६२ भङ्गानामवसेयानि ।
सामान्यमनुष्याणामुदयस्थानानि पञ्च तद्यथा - एकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । एतानि सर्वाण्यपि यथा प्राक् तिर्यक्पञ्चेन्द्रियाणामुक्तानि तथैवात्रापि वक्तव्यानि, नवरं तिर्यग्गति- तिर्यगानुपूर्वीस्थाने मनुष्यगति-मनुष्यानुपूव्यौं वेदितव्ये । एकोनत्रिंशत् त्रिंशच्च उद्योतरहिता वक्तव्या, वैक्रिया -ऽऽहारकसंयतान् मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात् । तत एकोनत्रिंशति भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि ५७६, त्रिंशत्येकादश शतानि द्विपञ्चाशदधिकानि ११५२ अवगन्तव्यानि । सर्वसङ्ख्यया प्राकृतमनुष्याणां पविशतिद्विकाधिक २६०२ भङ्गानां भवन्ति ।
वैक्रियमनुष्याणामुदयस्थानानि पञ्च तद्यथा - पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । तत्र मनुष्यगतिः पञ्चेन्द्रियजातिः वैक्रियं वैक्रियाङ्गोपाङ्गः समचतुरस्रम् उपघातं त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम सुभग-दुर्भगयोरेकतरम् आदेयाऽनादेययोरेकतरं यशःकीर्त्ति-अयशःकीत्योरेकतरा इति त्रयोदश प्रकृतयो द्वादशसङ्ख्याभिधु वोदयाभिः सह पञ्चविंशतिः २५ । अत्र सुभग- दुर्भगा ऽऽदेया - ऽनादेय-यशः कीर्ति- अयशः कीर्तिपदैरष्टौ भङ्गाः । देशविरतानां संयतानां च वैक्रियं कुर्वतां सर्वप्रशस्त एव भङ्गो वेदितव्यः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्ता 'यां सप्तविंशतिः, अत्रापि त एवाष्टौ भङ्गाः । ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वासे प्रक्षिप्तेऽष्टाविंशतिः, अत्रापि प्रागिवाष्टौ भङ्गाः | अथवा संयतानामुत्तरवक्रियं कुर्वतां शरीरपर्याप्त्या पर्याप्तानामुच्छ्वासेऽनुदिते उद्योत -
१ सं० १ त० म० व्यां सत्यां सप्त० ॥