Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 507
________________ २१४ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथा चातीर्थकर केवलिन औदारिकमिश्रकाययोगे वर्तमानस्य वेदितव्या, अत्र षड्भिः संस्थानैः षड् भङ्गा भवन्ति परं ते सामान्यमनुष्योदयस्थानेष्वपि सम्भवन्तीति न पृथग् गण्यन्ते । एषैव षड्विंशतिः तीर्थकरसहिता सप्तविंशतिर्भवति, एषा तीर्थकरकेवलिन औदारिकमिश्रकाययोगे वर्तमानस्यावसेया, अत्र संस्थानं समचतुरस्रमेव वक्तव्यम्, तत एक एवात्र भङ्गः । सैव षड्विशतिः पराघात- उच्छ्वास- प्रशस्ता प्रशस्तविहायोगत्यन्यतरविहा योगति सुस्वर- दुःस्वरान्यतरस्वरसहिता त्रिंशद् भवति, एपा चातीर्थकरस्य सयोगिकेवलिन औदारिककाययोगे वर्तमानस्यावगन्तव्या, अत्र संस्थानषट्क-प्रशस्ता प्रशस्त विहायोगति सुस्वर- दुःस्वरैश्चतुर्विंशतिर्भङ्गाः, ते च सामान्य मनुष्योदयस्थाने' ष्वपि प्राप्यन्ते इति न पृथग् गण्यन्ते । एषैव त्रिंशत् तीर्थकरनामसहिता एकत्रिंशद् भवति सा च सयोगिकेवलिनस्तीर्थकरस्यौदारिककाययोगे वर्तमानस्यावसेया । एपैव एकत्रिंशद् वाग्योगे निरुद्धे त्रिंशद् भवति, उच्छ्वासेऽपि च निरुद्धे एकोनत्रिंशत् । अतीर्थकर केवलिनः प्रागुक्ता त्रिंशद् वाग्योगे निरुद्वे सत्ये कोनत्रिंशद् भवति, अत्रापि षड्भिः संस्था 'नैः विहायोगतिद्विकेन च द्वादश भङ्गाः प्राप्यन्ते, ते च प्रागिव न पृथग् गण्यन्ते । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः, अत्रापि संस्था नादिगताः द्वादश भङ्गा न पृथग् गणयितव्याः, सामान्यमनुष्योदयस्थानग्रहणेन गृहीतत्वात् । तथा मनुष्यगतिः पञ्चेन्द्रियजातिः त्रसनाम बादरनाम पर्याप्तकनाम सुभगम् आदेयं यशः कीर्तिः तीर्थकरमिति नवोदयः, एष च तीर्थकृतोऽयोगिकेवलिनश्वरमसमये वर्तमानस्य प्राप्यते । स एवातीर्थकरस्य तीर्थकरनामरहितोऽष्टोदयः । इह केवल्युदयस्थानमध्ये विंशति - एकविंशति - सप्तविंशति- एकोनत्रिंशत् त्रिंशद् - एकत्रिंशद्-नवाSष्टरूपेष्वष्टसूदयस्थानेषु प्रत्येकमेकैको विशेषभङ्गः प्राप्यते इत्यष्टौ भङ्गाः । तत्र विंशत्यष्टक - योर्भङ्गावतीर्थकृतः, शेषेषु षट्सु उदयस्थानेषु तीर्थकृतः षड् भङ्गाः, सर्वसङ्खयया मनुष्याणामुदयस्थानेषु पविशतिशतानि द्विपञ्चाशदधिकानि २६५२ । देवानामुदयस्थानानि षट्, तद्यथा - एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । तत्र देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः सनाम बादरनाम पर्याप्तकं सुभग दुर्भगयोरेकतरम् आदेयाऽनादेययोरेकतरं यशः कीर्ति- अयशः कीत्योरेकतरा इति नव प्रकृतयो' द्वादशसङ्ख्याभिभ्रु' वोदयाभिः सह एकविंशतिः, अत्र सुभग- दुर्भगा - ऽऽदेया ऽनादेययशःकीत्तिं-अयशःकीर्तिपदैरष्टौ भङ्गाः । दुर्भगाऽनादेया - ऽयशः कीर्त्तीनामुदयः पिशाचादीनामवगन्तव्यः । ततः शरीरस्थस्य वैक्रियं वैक्रियाङ्गोपाङ्गम् उपघातं प्रत्येकं समचतुरस्त्रसंस्थानमिति १ ० १ ० ०ष्वपि इ० ।। २ सं० ति० शद् भवति । अ° ॥ ३ छा० म० मुद्रि० स्थानैः षड् भङ्गाः प्राप्यन्ते वि० ॥४ छा० म० न च द्वादश । ते च प्रागि० ॥ ५ छा० म० मुद्रि० स्थानगताः षड् भ० ६ सं० १ ० म० °यो ध्रुवोदयाभिर्द्वादशसंख्याभिः ॥

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602