________________
२१४
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथा
चातीर्थकर केवलिन औदारिकमिश्रकाययोगे वर्तमानस्य वेदितव्या, अत्र षड्भिः संस्थानैः षड् भङ्गा भवन्ति परं ते सामान्यमनुष्योदयस्थानेष्वपि सम्भवन्तीति न पृथग् गण्यन्ते । एषैव षड्विंशतिः तीर्थकरसहिता सप्तविंशतिर्भवति, एषा तीर्थकरकेवलिन औदारिकमिश्रकाययोगे वर्तमानस्यावसेया, अत्र संस्थानं समचतुरस्रमेव वक्तव्यम्, तत एक एवात्र भङ्गः । सैव षड्विशतिः पराघात- उच्छ्वास- प्रशस्ता प्रशस्तविहायोगत्यन्यतरविहा योगति सुस्वर- दुःस्वरान्यतरस्वरसहिता त्रिंशद् भवति, एपा चातीर्थकरस्य सयोगिकेवलिन औदारिककाययोगे वर्तमानस्यावगन्तव्या, अत्र संस्थानषट्क-प्रशस्ता प्रशस्त विहायोगति सुस्वर- दुःस्वरैश्चतुर्विंशतिर्भङ्गाः, ते च सामान्य मनुष्योदयस्थाने' ष्वपि प्राप्यन्ते इति न पृथग् गण्यन्ते । एषैव त्रिंशत् तीर्थकरनामसहिता एकत्रिंशद् भवति सा च सयोगिकेवलिनस्तीर्थकरस्यौदारिककाययोगे वर्तमानस्यावसेया । एपैव एकत्रिंशद् वाग्योगे निरुद्धे त्रिंशद् भवति, उच्छ्वासेऽपि च निरुद्धे एकोनत्रिंशत् । अतीर्थकर केवलिनः प्रागुक्ता त्रिंशद् वाग्योगे निरुद्वे सत्ये कोनत्रिंशद् भवति, अत्रापि षड्भिः संस्था 'नैः विहायोगतिद्विकेन च द्वादश भङ्गाः प्राप्यन्ते, ते च प्रागिव न पृथग् गण्यन्ते । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः, अत्रापि संस्था नादिगताः द्वादश भङ्गा न पृथग् गणयितव्याः, सामान्यमनुष्योदयस्थानग्रहणेन गृहीतत्वात् । तथा मनुष्यगतिः पञ्चेन्द्रियजातिः त्रसनाम बादरनाम पर्याप्तकनाम सुभगम् आदेयं यशः कीर्तिः तीर्थकरमिति नवोदयः, एष च तीर्थकृतोऽयोगिकेवलिनश्वरमसमये वर्तमानस्य प्राप्यते । स एवातीर्थकरस्य तीर्थकरनामरहितोऽष्टोदयः । इह केवल्युदयस्थानमध्ये विंशति - एकविंशति - सप्तविंशति- एकोनत्रिंशत् त्रिंशद् - एकत्रिंशद्-नवाSष्टरूपेष्वष्टसूदयस्थानेषु प्रत्येकमेकैको विशेषभङ्गः प्राप्यते इत्यष्टौ भङ्गाः । तत्र विंशत्यष्टक - योर्भङ्गावतीर्थकृतः, शेषेषु षट्सु उदयस्थानेषु तीर्थकृतः षड् भङ्गाः, सर्वसङ्खयया मनुष्याणामुदयस्थानेषु पविशतिशतानि द्विपञ्चाशदधिकानि २६५२ ।
देवानामुदयस्थानानि षट्, तद्यथा - एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् । तत्र देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः सनाम बादरनाम पर्याप्तकं सुभग दुर्भगयोरेकतरम् आदेयाऽनादेययोरेकतरं यशः कीर्ति- अयशः कीत्योरेकतरा इति नव प्रकृतयो' द्वादशसङ्ख्याभिभ्रु' वोदयाभिः सह एकविंशतिः, अत्र सुभग- दुर्भगा - ऽऽदेया ऽनादेययशःकीत्तिं-अयशःकीर्तिपदैरष्टौ भङ्गाः । दुर्भगाऽनादेया - ऽयशः कीर्त्तीनामुदयः पिशाचादीनामवगन्तव्यः । ततः शरीरस्थस्य वैक्रियं वैक्रियाङ्गोपाङ्गम् उपघातं प्रत्येकं समचतुरस्त्रसंस्थानमिति
१ ० १ ० ०ष्वपि इ० ।। २ सं० ति० शद् भवति । अ° ॥ ३ छा० म० मुद्रि० स्थानैः षड् भङ्गाः प्राप्यन्ते वि० ॥४ छा० म० न च द्वादश । ते च प्रागि० ॥ ५ छा० म० मुद्रि० स्थानगताः षड् भ० ६ सं० १ ० म० °यो ध्रुवोदयाभिर्द्वादशसंख्याभिः ॥