________________
८७-८८ ] शतकनामा पञ्चमः कर्मग्रन्थः ।
१२१ यदा पुनरौदारि कादिचतुष्टयमध्यादेकेन केनचित् शरीरेण सर्वबुद्गलान परिणमय्य मुञ्चति शेषशरीरपरिणमितास्तु पुद्गला न गृह्यन्त एव तदा सूक्ष्मो द्रव्यपुद्गलपरावर्ती भवतीति ।।८७।।
उक्तो द्वेधाऽपि द्रव्यपुद्गलपरावर्तः । सम्प्रति क्षेत्र-काल-भावपुद्गलपरावर्तान् बादर-सूक्ष्मभेदभिन्नान् निरूपयन्नाह
लोगपएसोसप्पिणिसमया अणुभागबंधठाणा य ।
जहतहकममरणेणं, पुट्ठा खित्ताइ थूलियरा ॥८८ ।। ___ लोकस्य-चतुर्दशरज्ज्वात्मकक्षेत्रखण्डस्य प्रदेशाः-निर्विभागा भागा लोकप्रदेशाः, तथोत्सर्पिणीशब्देनावसर्पिण्यप्युपलक्ष्यते दिनग्रहणे रात्र्युपलक्षणवत् , तयोः समया:-परमनिकृष्टाः कालविशेषा उत्सर्पिणी-अवसर्पिणीसमयाः, समयस्वरूपं च पट्टशाटिकापाटनदृष्टान्ताद् उत्पलपत्रशतभेदोदाहरणाचावसेयम् , ततो लोकप्रदेशाश्चोत्सर्पिण्यवसर्पिणीसमयाश्चेति द्वन्द्वः । तथाऽनुभागस्य--रसस्य बन्धः--बन्धनं तस्य निमित्तभृतानि स्थानानि-कपायोदयविशेषलक्षणान्यनुभागवन्धस्थानानि, अनुभागवन्धाध्यवसायस्थानानीत्यर्थः। चः समुच्चये, ततश्चैते प्रत्येकं त्रयोऽपि पदार्था यदा मरणशब्दस्य प्रत्येकमभिसम्बन्धाद्' यथातथामरणेन-क्रमोत्क्रमाभ्यां प्राणपरित्यागलक्षणेन । स्पृष्टाः-व्याप्ता भवन्ति तदा "खित्ताइ थूल" त्ति क्षेत्रादयः' क्षेत्रपुद्गलपरावर्त कालपुद्गलपरावलभावपुद्गलपरावर्ताः 'स्थूलाः' बादरा भवन्ति । यदा पुनस्त एव लोकाकाशप्रदेशा उत्सर्पिण्यवसर्पिणीसमया अनुभागबन्धाध्यवसायस्थानानि चेति प्रत्येकं त्रयोऽपि पदार्थाः क्रममरणेन--पूर्वस्पृष्टाकाशप्रदेशादिभ्योऽव्यवधानतः प्राणपरित्यागलक्षणेन स्पृष्टा भवन्ति तदा क्षेत्रपुद्गलपरावर्त कालपुद्गलपरावर्त भावपुद्गलपरावर्ताः "इयर" सि इतरे सूक्ष्मा भवन्तीति गाथाक्षरार्थः ।
भावार्थः पुनरयम्--यदाऽनन्तभवभ्रमणशीलो जन्तुरनन्तरेषु व्यवहितेषु वा अपरापराकाशप्रदेशेषु म्रियमाणः सर्वानपि चतुर्दशरज्ज्वात्मकलोकाकाशप्रदेशान् मरणेन स्पृशति तदा बादरः क्षेत्रपुद्गलपरावतों भवति । नवरं येष्वपरप्रदेशवृद्धिरहितेषु पूर्वावगाढेष्वेव नमःप्रदेशेषु मृतस्ते न गण्यन्ते, अपूर्वास्तु दूरव्यवहिता अपि स्पृष्टा गण्यन्त एवेति १ । कालतस्तु यदोत्सर्पिण्यवसर्पिणीसमयेषु सर्वेष्वपि क्रमेणोत्क्रमेण वा अनन्तानन्तेभरेको जन्तुमृतो भवति तदा बादरः कालपुद्गलपरावर्ती भवति । केवलं येषु समयेष्वेकदा मृतोऽन्यदापि यदि तेष्वेव समयेषु म्रियते तदा ते न गण्यन्ते, यदा पुनरेक-द्वितीयादिसमयक्रममुल्लचचापि अपूर्वेषु समयेषु म्रियते तदा ते व्यवहिता अपि समया गण्यन्त इति २ । भावतः पुद्गलपरावर्त उच्यते--अनु
१ सं० १-२ त० छा० ०कादिशरीरादिचतु० ॥ २ सं० १-२ त० म० छा सर्पिण्युपल० ।।
16