________________
१२०
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा
क्षेत्रादिविषयस्य पुद्गलपरा'वर्तरूपोऽन्वर्थो न घटां प्राश्चति तथाप्यन्यथाव्युत्पादितस्यापि शब्दस्यान्यथा गोशद्ववत् प्रवृत्तिदर्शनात् समयप्रसिद्धमर्थं विषयीकरोतीति न कश्चिद्दोष इति ।।८६।।
द्रव्यपुद्गलपरावर्तो बादरः सूक्ष्मश्च भवतीत्युक्तम् । अतः क्रमप्राप्त बादर-सूक्ष्मद्रव्यपुद्गलपरावर्तस्वरूपं प्ररूपयन्नाह
उरलाइसत्तगेणं, एगजिओ मुयइ फुसिय सव्वअणू ।
जत्तियकालि स थूलो, दव्वे सुहुमो सगन्नयरा ॥ ८७ ।। सूचकत्वात् सूत्रस्य 'औदारिकादिसप्तकत्वेन' औदारिकपरमाणून औदारिकशरीरतया आदिशब्दाद् वेंक्रियपरमारणून वैक्रियशरीरतया, तेजसपरमारणून तेजसशरीरतया, कामणपरमारणून कार्मणशरीरतया, भाषापरमारणून भाषात्वेन, प्राणापानपरमारणून प्राणापानतया, मनोवर्गणापरमागून मनस्त्वेन, न पुनराहारकशरीरमप्यत्र ग्राह्यम् कादाचित्कन्वात् तल्लाभस्येति, स्पृष्ट्वा' परिणमय्य तथापरिणामं नीत्वा, 'एकजीवः' विवक्षितकसत्त्वः 'मुञ्चति' त्यजति, 'सर्वाणन्' चतुदेशरज्ज्वात्मकलोकवर्तिसमस्तपरमारएन् , “जत्तियकालि" ति यावता कालेन, विभक्तिव्यत्ययश्च प्राकृतत्वात् , यदाह पाणिनिः स्वप्राकृतलक्षणे- "व्यत्ययोऽप्यासाम्" इति । स इत्थं पुद्गलस्पर्शमानेनोपमितः कालविशेषः 'स्थूलः' बादरः "दव्वि" ति द्रव्यपुद्गलपरावर्ती भवतीति प्रक्रमः । इह किल संसारकान्तारे पर्यटन्नेकजीवोऽनेकैर्भवग्रहणैः सकललोकवर्तिनः सर्वानपि पुद्गलान् यावता कालेन औदारिकशरीर-क्रियशरीर-तैजसशरीर-भाषा-प्राणापान--मनः-कार्मणशरीरलक्षणार्थसप्तकभावेन यथास्वं परिणमव्य मुश्चति स तावत्प्रमाणः कालो द्रव्यतो बादरः पुद्गलपरावों भवतीति तात्पयमिति ।
अभिहितो बादरो द्रव्यपुद्गलपरावर्तः । इदानीं सूक्ष्मद्रव्यपुद्गलपरावर्तमाह-“मुटुमो सगनयर" ति सूक्ष्मो द्रव्यपुरलपरावर्ती भवतीति सम्बन्धः । कथम् ? इत्याह-'सामान्य तरात'न्यतरस्माद] सप्तकान्यतरेण, विभक्तिव्यत्ययश्च प्राकृतत्वात् । इदमन हृदयम्-समानामौदारिक-प्रक्रिय-तेजस भाषा-प्राणापान-मन:-कामेणमध्यादन्यतरेण पुनर केन केनचिदोदारिकादिना पूर्वप्रदर्शितप्रकारेण सकललोकार्तिपुद्गलानां स्पर्शने औदारिकादिशपिरतया गृहीत्वा मोचने सूक्ष्मद्रव्यपुदलपरावर्तो भवति । विवक्षितभेदाविशेषैः पनि दैः परिणमिता अघि न गृह्यन्त इति । एके वाचार्या एवं द्रव्यपुद्गलपरावर्तस्वरूपं प्रतिपादयन्ति, तथाहि-यदेको जीवोऽनेकैर्भवग्रहणेरौदारिकशरीर-चौक्रियशरीर--तैजसशरीर-कार्मणशरीरचतुष्टयरूपतया यथास्वं सकललोकवर्तिनः सर्वान् पुद्गलान् परिणमय्य मुञ्चति तदा बादरो द्रव्यपुद्गलपरावो भवति ।
१ त० म० वर्तस्वरू । सं० १२ वर्तत्वरू ॥ २ सं० १-२ छा० म० ०कवर्ति०॥