SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ८५-८६ ] शतकनामा पञ्चमः कर्मग्रन्थः । ११६ 'एएहिं सुहुमखे तपलिओवमसागरोवमेहिं किं पओयणं १ गोयमा ! एएहिं सुहुमखे तपलिओ सागरो मेहिं दिट्टिवाए दव्वाई मविज्जंति (अनुयो० पत्र १९३ - १ ) इति । आह-यदि स्पृष्टा अस्पृष्टाश्चेह सूक्ष्मक्षेत्रपल्योपमे नभःप्रदेशा गृह्यन्ते तर्हि वालायैः किं प्रयोजनम् १ यथोक्तपल्यान्तर्गतनभः प्रदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात्, सत्यम्, किन्तु सूक्ष्मक्षेत्रपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टैरेव नभःप्रदेशैर्मीयन्ते कानिचिदस्पृष्टैरिति, अतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद् वालाग्रप्ररूपणात्र प्रयोजनवतीति ॥ ८५ ॥ व्याख्यातं बादर- सूक्ष्म भेदतो द्विविधमपि क्षेत्रपल्योपमम् ३ | तद्वयाख्याने च समर्थितं सप्रपञ्चं पल्योपम-सागरोपमस्वरूपम् । इदानीं किञ्चिदूनं पुलपरावर्तार्धं सास्वादनादीनामुत्कृष्टमन्तरमुक्तम् अतस्तमेव प्रपञ्चं पुद्गलपरावर्त गाथात्रयेण निरूपयितुकामः प्रथमं तावत् तस्यैव भेदान् परिमाणं चाह दवे खित्ते काले, भावे चउह दुह बायरो सुमो । होइ अनंतुस्सप्पिणिपरिमाणो पुग्गलपरहो || ८६ ।। 'द्रव्ये' द्रव्यविषयः 'क्षेत्रे' क्षेत्रविषयः 'काले' कालविषयः 'भावे' भावविषयः, इत्थं 'चतुर्धा ' चतूरूपः पुद्गलपरावर्तो भवतीत्युत्तरेण सण्टङ्कः । पुनरेकैको द्रव्यादिकः 'द्विविधः ' द्विप्रकारो भवति । द्वैविध्यमेवाह — "बायरो सुहुमो" ति बादर- सूक्ष्मभेदभिन्नः । अयमर्थः - द्रव्यपुद्गल - परावर्ती द्वेधा-बादरः सूक्ष्म, क्षेत्र पुद्गलपरावर्ती द्वेधा - बादरः सूक्ष्मश्र, कालपुद् गल परावर्तो द्वेधा-चादरः सूक्ष्मश्च, भावपुद्गलपरावर्ती द्वेधा - बादरः सूक्ष्म । कियत्कालप्रमाणः पुनरयमेकैकः १ इत्याह-- "होइ अनंतुस्सप्पिणिपरिमाणो" त्ति 'भवति' जायते उत्सर्पन्ति - प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीराऽऽयुः प्रमाणादिकमपेक्ष्य वृद्धिमनुभवन्तीत्युत्सर्पिण्यः, ततोऽनन्ता उत्सर्पिण्यः, उपलक्षणत्वादवसर्पन्ति - प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीराऽऽयुः प्रमाणादिकमपेक्ष्य हानिमनुभवन्तीत्यवसर्पिण्यः, ताश्च परिमाणं यस्य सोऽनन्तोत्सर्पिणी-अवसर्पिणीपरिमाणः । पूर्ण - गलनधर्माण: पुद्गलाः तेषां पुद्गलानां चतुर्दशरज्ज्वात्मकलोकवर्तिसमस्तपरमाणून परावर्तः-औदारिकादिशरीरतया गृहीत्वा मोचनं यस्मिन् कालविशेषे स पुद्गलपरावर्तः । यद्यपि १ एताभ्यां सूक्ष्मक्षेत्रपल्योपम-सागरोपमाभ्यां किं प्रयोजनम् ? गौतम ! एताभ्यां सूक्ष्मक्षेत्रपल्योपम-सागरोपमाभ्यां दृष्टिवादे द्रव्याणि मीयन्ते || २ सटीकेयं गाथा सार्द्धशतकप्रकरणस्य १०६तमी गाथा-तट्टीकासमा ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy