Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 496
________________ २०३ २२-२४] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् । स्पर्शा अगुरुलघु उपघातनाम स्थावरनाम सूक्ष्म-बादरयोरेकतरम् अपर्याप्तकनाम प्रत्येक साधारणयोरेकतरम् अस्थिरनाम अशुभनाम दुभंगनाम अनादेयनाम अयशःकीर्तिनाम निर्माणनाम । एतासां त्रयोविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् , एतच्चापर्याप्तकप्रायोग्यं बध्नतो मिथ्याप्टेरवसेयम् । अत्र भङ्गाश्चत्वारः, तथाहि-बादरनाम्नि बध्यमाने एका त्रयोविंशतिः प्रत्येकनाम्ना सह प्राप्यते, द्वितीया साधारणनाम्ना, एवं सूक्ष्मनाम्न्यपि बध्यमाने द्वे त्रयोविंशति, सर्वसङ्ख्यया चतस्रः । एव त्रयोविंशतिः पराघात-उच्छ्वाससहिता पञ्चविंशतिः । नवरमेवमभिलपनीया-- तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिक-तैजस-कार्मणानि हुण्डसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु उपघातनाम पराघातनाम उच्छ्वासनाम स्थावरनाम बादर-सूक्ष्मयोरेकतरं पर्याप्तकं प्रत्येक साधारणयोरेकतरं स्थिरा-ऽस्थिग्योरेकतरं शुभाऽऽशुभयोरेकतरं यश कीर्ति-अयशःकीयोरेक'तरं दुर्भगम् अनादेयं निर्माणमिति । एतासां पञ्चविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् एतच्च पर्याप्तकैकेन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेरवगन्तव्यम् । अत्र भङ्गा विंशतिः-तत्र बादरपर्याप्त-प्रत्येकेषु बध्यमानेषु स्थिरा-ऽस्थिर-शुभा--ऽशुभ-यशःकीर्ति-अयशःकीर्तिभिरष्टो भङ्गाः, तथाहि-बादर-पर्याप्प-प्रत्येक स्थिर-शुभेषु बध्यमानेषु यशःकीर्त्या सह एकः, द्वितीयोऽयशःकीया, एतौ च द्वौ भङ्गो शुभपदेन लब्धौ, एवमशुभपदेनापि द्वौ भङ्गो लभ्येते ततो जाताश्चत्वारः, एते चत्वारः स्थिरपदेन लब्धाः, एवमस्थिरपदेनापि चत्वारो लभ्यन्ते ततो जाता अष्टौ। एवं पर्याप्त-बादर-साधारणेषु बध्यमानेषु स्थिरा-ऽस्थिर-शुभा-ऽशुभा-ऽयशःकीर्तिपदेश्चत्वारः, यतः साधारणेन सह यशःकीर्तिबन्धो न भवति "नो सुहुमतिगेण जसं" इति वचनात् , ततस्तदाश्रिता विकल्पा न प्राप्यन्ते । सूक्ष्म-पर्याप्तनाम्नोर्वध्यमानयोः प्रत्येक साधारणस्थिराऽस्थिर-शुभा-शुभा-ऽयशःकीर्तिपदैरप्टो, सूक्ष्मेणापि सह यशःकीलेंन्धाभावादत्रापि तदाश्रिता विकल्पा न प्राप्यन्ते । तदेवं सर्वसङ्ख्यया पश्चविंशतिबन्धे विंशतिर्भङ्गाः । एपेव पञ्चविंशतिरातप-उद्योतान्यतरसहिता पड्विंशतिः, नवरमेवमभिलपनीया-तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिक-तैजस-कार्मणानि हुण्डसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु पराघातम् उपघातम् उच्छ्वासनाम स्थावरनाम आतप-उद्योतयोरेकतरं बादरनाम पर्याप्तकनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं दुर्भगम् अनादेयं यशःकीर्ति-अयशःकीयो रेकतरं निर्माणमिति । एतासां च पड्विशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् । एतच्च पर्याप्तकैकेन्द्रियप्रायोग्यमातप-उद्यो तान्यतरसहितं बध्नतो मिथ्यादृष्टेरवगन्तव्यम् । अत्र भङ्गाः पोडश, ते १ केपुचिदादर्शेषु कतरा केषुचिद् कतरं एवमग्रेऽपि ।। २ नो सूक्ष्मत्रिकेण यशः । ३ सं० १ त० ताभ्यां स०॥

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602