Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text
________________
ललितविस्तरा-सटीका
इति-शक्रस्तवस्य 'धर्मदेशक' रूपैकविंशतितमपदस्य व्याख्या समाप्ता ।
यथा 'धर्मदाः, धर्मदेशका अर्हन्तोभवन्ति तथा धर्मनायका अर्हन्तः सन्ति । अर्थाद धर्मनायकेभ्योऽर्हद्भ्यो भगवद् भ्यो नमो नमः । - ..
तथा 'धम्मनायगाणं इह धर्म:-अधिकृत एव, तस्य स्वामिनः, तल्लक्षणयोगेन, तद्यथा-तद्वशीकरणभावात् तदुत्तमावाप्तेस्तत्फलपरिभोगात्तद्विघातानुपपत्तेः, तथा हिएतद्वशिनो भगवन्तः
विधिसमासादनेन १ विधिनाऽयमाप्तो भगवद्भिः, तथा निरतिचारपरिपालनतया २ पालितश्चातिचारविरहेण, एवं यथोचितदानतो ३ दत्तश्च यथाभव्यं, तथा तत्रापेक्षाभावेन ४ नामीषां दाने वचनापेक्षा १, एवं च तदुत्तमावाप्तयश्च भगवन्तः प्रधानक्षायिकधावाप्त्या १ तीर्थकरत्वात्प्रधानोऽयं भगवतां, तथा परार्थसम्पादनेन २ सत्त्वार्थकरणशीलतया, एवं होनेऽपि प्रवृत्तेः ३
तथा तथाभव्यत्वयोगात् अत्युदारमेतदेतेषाम् २ । एवं तत्फलपरिभोगयुक्ताः सकलसौन्दर्येण निरुपमं रूपादि भगवतां, यथा प्रातिहार्ययोगात्, नान्येषामेतत्, एवं उदारद्धर्यनुभूतेः समग्रपुण्यसम्भारजेयं, तथा तदाधिपत्यतो भावात्, न देवानां स्वातन्त्र्येण ३, एवं तद्विघातरहिताः, अवन्ध्यपुण्यबीजत्वात् एतेषां स्वाश्रयपुष्टमेतत्, तथा अधिकानुपपत्तेः नातोऽधिकं पुण्यं, एवं पापक्षयभावात्, निग्धमेतत्, तथाऽहेतुकविघातासिद्धेः सदा सत्त्वादिभावेन ४ । एवं धर्मस्य नायका धर्मनायका इति २२ ॥
पं.-धर्मस्य नायकत्वे भगवतां साध्ये तद्वशीकरणादयश्चत्वारो मूलहेतवः, प्रत्येकं स्वप्रतिष्ठापकैः सभावनिकैश्चान्यश्चतुभिरेव हेतुभिरनुगता व्याख्येयाः, तत्र तद्वशीकरणभावस्य मूलहेतोविधिसमासादनं १ निरतिचारपालनं २ यथोचितदानं ३ तत्रापेक्षाभाव ४ चैते सभावनिकाश्चत्वारः प्रतिहेतवो, द्वितोयस्य च तदुत्तमावाप्तिरूपस्य प्रधानक्षायिकधर्मावाप्तिः १ परार्थसम्पादनं २ हीनेऽपि प्रवृत्ति ३ स्तथाभव्यत्वयोग ४ श्चेत्येवंलक्षणाः, तृतीयस्य पुनस्तत्फलपरिभोगलक्षणस्य सफलसौन्दर्य १ प्रतिहार्ययोग २ उदारद्धय॑नुभूति ३ स्तदाधिपत्यभावश्चेत्येवंरूपाः ४, चतुर्थस्य तु तद्विघातानुपपत्तिरूपस्यावन्ध्यपुण्यबीजत्वं १ अधिकानुपपतिः २ पापक्षयमावो ३ ऽहेतुकविघातासिद्धि ४ श्चेत्येवंस्वभावाः समावनिकाश्चत्वार एव प्रतिहेतवः, एते च भावनाग्रन्थेनैव व्याख्याता इति न पुनः प्रयासः, परं "एतद्वशिनः" इति एषः-अधिकृतो धर्मो वशी-वश्यो येषां ते एतद्वशिन इति । .. "बिधिसमासादनेनेति" विधिसमासादितो ह्यर्थोऽव्यभिचारितया वश्यो भवति, न्यायोपात्तवि
166