Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 425
________________ ७७ ललितविस्तरासंस्कृतटीका एकोवाऽनेके वा पठति. पठन्ति च स चायम्" लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्इस्सं, चउवीसपि केवलि ॥१॥ (लोकस्योद्योतकरान् , धर्मतीर्थकरान् जिनान् । अर्हतः कीर्तयिष्यामि, चतुर्विंशति केवलिनः।।१।।) अस्य-चतुर्विशतिस्तवस्य व्याख्या "लोकस्योद्योतकरानित्यत्र, ( लोकस्येत्यत्रासमस्त-षष्ठीविभक्तेर्भावार्थ:-षष्ठीविभक्तिर्मुख्यत्वेनोपपदविभक्तिरस्ति, पष्ठीविभक्तेः सम्बन्धोऽन्येन नाम्ना सहाऽस्ति, अर्थस्य दृष्ट्या पश्चादागच्छन्नाम्नो विशेषणं यथाऽस्ति तथा, दा. त. 'ग्रामस्योद्योगाः ' ग्रामोद्योगाः इति रीत्या षष्ठीविभक्तेरौँ विशेषणवद् भवति, ततः केचित् षष्ठीविभक्ति विशेषणविभक्तित्वेन कथयन्ति, अर्थाद् विशेषणस्य भेदत्वेन विवक्षायामेव विशेषणस्य षष्ठीविभक्तिर्भवति, अभेदविवक्षायां नहि, तथाऽत्रापि विषयिज्ञानेन विषयभूतलोकस्य भेदविवक्षाऽस्ति, एवं लोकशन्दस्था षष्ठीविभक्तिः कथयति ) ___ एवं याऽसमस्तत्वेन लोकशब्दतः षष्ठीविभक्तिकरणपूर्विका वाक्यरचना कृताऽस्ति, तत्र हार्दमेवमस्ति "विज्ञानाद्वैतव्युदासेनोद्योत्योद्योतकयो |दसन्दर्शनार्थ भेदेनोपन्यासः" ये विज्ञानाद्वैतवादिनो जगतः केवलविज्ञानरूपत्वं मन्यन्ते, तन्मतखण्डनद्वारा विज्ञानाद्वैतवादिनी योगाचार-विशेषस्य विज्ञानवादिनो. बौद्धास्तु विज्ञानं विविधम् प्रवृत्तिविज्ञानम् आलयविज्ञानं च। तमाचं अयं घटः इत्याकारकम् । द्वितीयं चाहं जानामि इत्याकारकं । तदेवात्मा इत्युच्यते, इति वदन्ति । बौद्धस्य मतमस्ति यद् ग्राह्यग्राहकादिना रहितस्य 'विज्ञानमात्रस्य' परमार्थतः सत्यताऽस्ति, यतो बाद्यपदार्थानामभावो वर्तते, ज्ञानं कारणं किश्चिद् वाद्यपदार्थरूपं नास्ति, अर्थाद् विज्ञानं विमुच्य वाह्यः पदार्थः किञ्चिद् बस्तु नास्ति, वस्तुतस्तु समस्तो भावः, स्वप्नवन्मायावद् गन्धर्वनगरवद्-असद्रूपोऽस्ति, तस्मात् परमार्थसत्यतः स्वयं प्रकाशक विज्ञानमेव सत्यमस्ति सर्वमेतद् दृश्यमानं जगद् विज्ञानपरिणामरूपं-विज्ञानमयमस्ति, सर्वे पदार्था निःस्वभावाः) उद्योत्य-प्रकाश्यं (प्रमेयज्ञेयवस्तु) चोद्योतकश्च (प्रकाशकं-प्रमाणं-ज्ञान) उद्योत्योद्योतकयो #दसन्दर्शनार्थ भेदेनोपन्यासः (वाक्यरचनारूपः) लोकशब्दव्याख्या लोक्यते लोकः (दृश्य पदार्थः) लोक्यते केवलज्ञा नदर्शन-प्रमाणेन दृश्यते इति भावः (प्रमाणेन प्रमाणित-दश्य-ज्ञेय-पदार्थः) स्वपरनिर्णायकज्ञानप्रमाणेन सम्यगर्थनिर्णयप्रमाणेन प्रत्यक्षपरोक्षरूपमेदद्वयवता प्रमाणेन प्रमेय-विषयलोकः, ..

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550