Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 499
________________ ललितविस्तरासंस्कृतटीका शङ्का स्वयंबुद्धसिद्धप्रत्येक-बुद्धसिद्धयोः कः प्रतिविशेषः ? समाधानम् =प्रत्येकबुद्धस्वयंबुद्धसिद्धयोर्मध्ये भेदमहत्त्वापेक्षया, बोध्युपधिश्रतलिङ्ग (वेष) भेदास्तु भेदः-विशेषः, (१) बोधिभेदः स्वयंबुद्धा बाह्यनिमित्तं विहाय जातिस्मरणादिना बुद्धयन्ते, प्रत्येकबुद्धास्तु वाह्यनिमित्तनैव बुद्ध्यन्ते श्रूयते च बाह्यवृषभादि-प्रत्यय (निमित्त) सापेक्षःकरकण्डवादीनां प्रत्येकबुद्धानां बोधिः, एवं जातिस्मरणादीनां स्वयंबुद्धानां बाह्यप्रत्ययसापेक्षो बोधि न भवति. (२) उपधिभेदः= उपधिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवजः, (यः सर्वदा धार्यते स औधिक उपधिः, स चतुर्दशविधः, तद् यथा १-पात्रकं २-पात्रबन्धनं (झोलिका) ३-पात्रकेशरिका (लध्वीपूंजणी) ४-गुच्छकं (गुच्छा) ५-पात्रस्थापना ६–पटलकं (पडला) ७-रजस्त्राणं ८ कल्पप्रावरणं (चादर-कपडो-कामली) ९रजोहरणं (धर्मध्वज-ओधो) १०-मुखवस्त्रिका ११- मात्रकं १२-चोलपट्टकं १३-संस्तारकं (संथारो) १४-उत्तरपट्टकं (उत्तरपट्टो) तेभ्यः चोलपट्टकं च मात्रकं वर्जयित्वा द्वादशविध उपधिः स्वयंबुद्धानां भवति. प्रावरणं-कल्पः सार्ध त्रयहस्तायामः सार्धहस्तद्वय-विस्तार एष कल्पो भवति. सर्व संभ्य सौत्रिकद्वयं एकमौर्णिकमेवं त्रयं भवति.) (३) श्रुतभेदः स्वयंबुद्धानां पूर्वाऽधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः, स्वयंबुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धोनां तु देवता प्रयच्छतीत्यलं विस्तरेण, अर्थात् , स्वयंबुद्धानां पूर्वे अधीतश्रुतविषये नियमो नास्त्येव, पूर्वाऽधीत श्रुतज्ञाने सत्येव, देवः साधुवेषमर्पयति, अथवा गुरुपार्श्व गत्वैव साधुवेषं गृह्णाति, अर्थात् -पूर्वाऽधीतश्रुतविषये नियमो नास्ति, प्रत्येकबुद्धानां तु पूर्वाऽधीतश्रुतं नियमाद् भवत्येव. तत्रापि जघन्यत एकादशाऽङ्गानि, उत्कर्षतश्च दशपूर्वेभ्यश्च किश्चिन्न्यूनं ज्ञेयम् , (७) बुद्धबोधितसिद्धाः=बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, एवे च सर्वेऽपि, स्त्रीलिङ्गसिद्धाः केचित् , केचित्पुंलिङ्ग-सिद्धाः, केचिन्नपुंसकलिङ्गसिद्धा इति । अर्थात् -पूर्वोक्तसप्तविधाः, तीर्थातीर्थ-तीर्थकरा-तीर्थकरसिद्ध-स्वयंबुद्ध-प्रत्येकबुद्ध-बुद्धबोधितसिद्धा अपि त्रिभेदाः स्युः,

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550