Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१८१
ललितविस्तरासंस्कृतटीका
-अथ शास्त्रकारः तदेवंविध-शुभफलप्रणिधानपर्यन्तं ( यावत् ) चैत्यवन्दनं, अनुष्ठानं सञ्जातं, तदन्वाचार्यादीनमिवन्ध (एको वाऽने के साधवः) कुग्रह (कदाग्रह)स्य विरहेण (अत्यन्ताभावेन) यथोचितं तं करोति. (कुर्वन्ति वा)
तदेवं-विधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनं, तदन्वाचार्यादीनभिवन्द्य यथोचितं करोति कुर्वन्ति वा कुग्रहविरहेण । एतसिद्धये तु यतितव्यमादिकर्मणि परिहर्त्तव्योऽकल्याणमित्रयोगः सेवितव्यानि कल्याणमित्राणि न लखनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, भवितव्यमेततन्त्रेण प्रवर्तितव्यं, दानादौ कर्त्तव्योदारपूजा, भगवतां निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रं. भावनीयं महायत्नेन, प्रवर्तितव्यं विधानतः, अवलम्वनीयं धैर्य, पर्यालोचनीया आयतिः, अवलोकनीयो मृत्युः, भवितव्यं परलोकप्रधानेन, सेवितव्यो गुरुजनः, कर्त्तव्यं योगपटदर्शनं, स्थापनीयं तद्रूपादि चेतसि, निरूपयितव्या धारणा, परिहर्त्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमाः, लेखनीयं भुवनेश्वरवचनं, कर्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतुः-शरणं, गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं कुशलं, पूजनीया मन्त्रदेवताः, श्रोतव्यानि सच्चष्टितानि, भावनीयमौदार्य, वर्त्तितव्यमुत्तमज्ञातेन, एवंभूतस्येह प्रवृत्तिः सा सर्वैव साध्वी, मार्गानुसारी ह्ययं नियमादपुनर्बन्धकादिः, तदन्यस्यैवंभूतगुणसम्पदोऽभावात् , अत आदित आरभ्यास्य प्रवृत्तिः सत्प्रवृत्तिरेव नैगमानुसारेण चित्रापि प्रस्थकप्रवृत्तिकल्पा, तदेतदधिकृत्याहु:-"कुठारादिप्रवृत्तिरपि रूपनिर्माणप्रवृत्तिरेव” तद्वदादिधार्मिकस्य धर्मे कात्स्न्स्येन तद्गामिनी न तद्वाधिनीति हार्दाः ।
Loading... Page Navigation 1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550