Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरा संस्कृतटीका
(१२) भावनीयं महायत्नेन महता - विशिष्टेन, धर्मशास्त्र - श्रवणतः प्राप्ततत्त्वकर्त्तव्यमार्गेण स्वात्मा, भावितो - वासितः कार्यः, अर्थात् प्रयत्नपूर्वकं, शास्त्रीयवस्तुनो भावनं - चिन्तनमननं - परिणमनं विधातव्यम् ।
१८६
(१३) महात्नेन प्रवर्तितव्यं विधानतः = शास्त्रीयविघानानुसारेण हेयहानं, उपादेयोपादानरूपप्रवृत्तिः कार्या भावितताकरणादपि हेयहानोपादेयोपादानरूपप्रवृत्तिरवश्यं कार्या.
(१४) अवलम्वनीयं धैर्य = महाऽऽपदाद्याऽऽगमनेऽपि कष्टेऽपि विशिष्टमहाकार्यापातेऽपि धैर्य, सत्त्वं - पराक्रमो रक्षणीयः, सर्व सत्त्वे प्रतिष्ठितं महति - कार्यप्रसंगेऽपि धैर्यमचलत्वं प्राप्य धीरेण वीरेण - गम्भीरेण भाव्यम्.
(१५) पर्यालोचनीया - आयतिः = ' आयतिस्तूत्तरः कालः ' उत्तरकालस्य - भविष्यत्कालस्य पर्यालोचना कर्त्तव्या, कस्मादपि कार्यात् पूर्वं दीर्घदृष्टया भाविपरिणामश्चिन्तनीयः, 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ' विचार्य कार्य कार्यम्.
(१६) अवलोकनीयो मृत्युः = आयुः प्रधानं जीवनं आयुषोऽस्थिरत्वेन जीवनं मरणप्रकृतिकं, मरणं प्रकृतिः प्रकृतितो मरणमेव, कदा मृत्युरागमिष्यतीति निर्णयो न, निर्णीतत्वेऽपि मरणं तत्काले निर्णीतमेव मरण- निश्चये 'न' कोऽप्यर्थः, आत्मनोऽमरत्वमेव परन्तु कर्मदशापेक्षया मरणदशा प्राप्यते पराधीनोऽयमात्मा, स्वतन्त्रत्वे कर्मरहितत्वे सति न मरणं, न जननं, न भवभ्रमणं, स्वात्मस्वरूपावस्थानेऽनन्त - अमरत्वसुखमयाऽवस्था.
(१७) भवितव्यं परलोकप्रधानेन = जीवने परलोकस्य - ( भविष्यल्लोकस्य ) प्रधानं कार्य कार्य ततो जीवितव्यं यत एतल्लोकस्य सुखसाधनं सत्तासन्मानं गौणं कृत्वा, परलोके दुर्गतिदुःख - दौर्भाग्यादि कथं नागच्छेत्तथा सद्गति - शुभभाव - सुष्ठु धर्मसामग्री - धर्मवीर्योल्लासादिकं प्राप्नुयादिति मुख्यं रक्षणीयम् .
(१८) सेवितव्यो गुरुजनः = गुरुजनस्य समीचीना सेवा कर्त्तव्या, गुरुसेवात्वतिदुर्लभा, 'सेवाधर्मः परमगहनो योगिनामप्यगम्यः '.
(१९) कर्त्तव्यं योगपटदर्शनं = मंत्राक्षरादि - सहितेष्टदेवादि - विषयकाध्यात्मिकभाववृद्धिकारकत्वेन चित्रमयपटस्य दर्शनं कार्यम्.
(२०) स्थापनीयं तद्रूपादि चेतसि = तत्र योगपटे आलेखितं स्वरूपं धारणीयं, चिते स्थापनीयम् ततश्चित्ते तत् संस्कारादिपतने हृदयकमले, एतत् समञ्जसं, प्रतिबिम्बितं संनिरीक्ष्य, योगपटीयस्वरूपं ध्येयम् .
Loading... Page Navigation 1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550