Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
१८४
ललितविस्तरासंस्कृतटोका कष्टो ग्रन्थो मतिरनिपुणा सम्प्रदायो न तादृक्, शास्त्रं तन्त्रान्तरमतगतं सन्निधौ नो तथापि । स्वस्य स्मृत्यै परहितकृते चात्मबोधानुरूपं, मागामागः, पदमहमिह व्यापृतश्चित्तशुद्धया ॥१॥
__ (मन्दाक्रान्ता.) श्रीमच्छीहरिभद्रसूरीश्वरस्य स्वपरोपकाराय निर्वाणफलसाधनार्थ अतिशयकारण भविकजनाय नान्यस्य । कल्याणमस्तु । ग्रन्थाग्रम् १५४५ पञ्जिकाग्रन्थ० २१५५ उभयोर्मीलने ३७०० ॥ ___टी.....अथ ग्रन्थकारमहर्षिश्चैत्यवंदनादिविषयकमहत्या साधनायाः प्रणिधानपूर्वकं सम्यग्रीत्या
सिद्धये,
___सा साधनाऽन्तरात्मनि परिणता भवेत्तदर्थे, भूमिकारूपाणि त्रयस्त्रिंशत्कर्त्तव्यानि दर्शयति, कर्त्तव्यानि, आत्मन उत्थानाय, अनादिमिथ्याम तिवासितान्तः करणानां परिवर्तनाय, मानवीयजीवनस्य प्राथमिक-सफलता-प्राप्ति-कृतेऽपि, अत्यन्तसुदृढसाधनानि सन्ति, तानि चेत्थम् ।
(१) यतितव्यमादिकर्मणि आदिधार्मिकस्य कर्त्तव्येषु प्रयत्नशीला भवन्तु, दृष्टान्ततया तु दया-प्रेम-मैत्री-क्षमा- कुसंगत्याग-सत्य-गुणानुराग-विनय-नम्रता-परदारत्याग-परोपकार -गुरुजनपूजा-परगुणग्रहण-परनिन्दात्याग-शीलरक्षेत्याद्या आदिधार्मिकगुणाः ।
(२) परिहर्त्तव्यो-अकल्याणमित्रयोगः अस्मदीयमात्मानं विना सहायकं मित्रं सदाऽकर्त्तव्यपराङ्मुखं च सदा कर्तव्यवद्धं कर्तु अशक्यत्वात् कल्याणमित्रं कर्त्तव्यमेव-अकल्याणमित्रपरिहारः. देशसर्वभेदात् पार्श्वस्था विभेदाः-(१) सर्वपार्श्वस्थः सम्यक्दर्शनज्ञानचारित्रत्वेन रहितत्वात् केवलं वेषभृद् भवेद् स सर्वपार्श्वस्थ:,
शय्यातराहतपिण्डः, राजपिण्डः, नित्यपिण्डः, अग्रपिण्डः कुलनिश्रा, स्थापनाकुल, सिखंडी, गृहस्थस्तुतिः-इत्यादि यः करोति स देशपार्श्वस्थः,
द्वौ पार्श्वस्थौ साधू अवंदनीयौ ।
(२) अवसन्नः साधुसमाचारीषु देशतः सर्वतः शिथिलः यः सो, अवसन्नः कथ्यते, एषोऽवन्दनीयः ।
कुशीलः त्रिधा अष्टधा ज्ञानाचार-विराधकः स ज्ञानकुशीलः, अष्टधा दर्शनाचारविराधकः स दर्शनकुशीलः, एवं यंत्रमंत्रादिकं करोति, यः स्वप्नफलं ज्योतिषादि, प्रकाशयति चारित्रं विराधयति स चारित्रकुशीलः । एते त्रयोऽवंदनीयाः ।
संसक्तश्चाश्रवयुक्तः, संविलष्टसंसक्तः, असंक्लिष्टसंसक्तः, यथाच्छंदोऽप्यवन्दनीयः) । (३) सेवितव्यानि कल्याणमित्राणि=आत्मीयहितकारीणि मित्राणि समाराध्यानि ।
Loading... Page Navigation 1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550