Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 531
________________ ललितविस्तरासंस्कृतटीका १८३ कृत्वा यदर्जितं पुण्यं, मयैनां शुभभावतः । तेनास्तु सर्वसत्त्वानां, मात्सर्यविरहः परः ॥५॥ इति ललितविस्तरानामचैत्यवन्दनवृत्तिः समाप्ता । कृतिर्द्धमतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्येति ॥ ५०..."कुठारे"त्यादि, कुठारादिप्रवृत्तिरपि-कुठागदौ प्रस्थकोचितदारुच्छेदोपयोगिनि शस्त्रे प्रवृत्तिः-घटनदण्डसयोगनिशातीकरणादिकापि आस्तां प्रस्थकोत्किरणादिका "रूपनिर्माणप्रवृत्तिरेव" प्रस्थकाद्याकारनिष्पत्तिव्यापार एव, उपकरणप्रवृत्तिमन्तरेण उपकर्त्तव्यप्रवृत्तेरयोगात् “ तद्वत्" कुठारादिप्रवृत्तिवद् रूपनिर्माणे अपुनर्बन्धकस्य धर्मविषये या प्रवृत्तिः-देवयोगात् प्रणामादिका सदोषाऽपि “कालन्यन” सामत्येन 'तद्गामिनी' धर्मगामिनी 'न तु' न पुनः तद्बाधनी' धर्मचाधिका “इति" एवं "हार्दा" ऐदम्पर्यान्तगवेषिणः, आहुरिति शेषः, कुत इदमित्थमित्याह ___ " तत्त्वाविरोधक ” देवादितत्त्वाप्रतिकूलं यतो हृदयम् अस्य-अपुनर्बन्धकस्य, न तु प्रवृत्तिरपि, अनाभोगस्यैव तत्रापराधित्वात् , “ततः" तत्त्वाविरोधकात् हृदयात् “समन्तभद्रता" सर्वतः कल्याणता, न तु प्रवृत्तेः केवलायाः, कुशलहृदयोपकारित्वात्तस्याः, तस्य च तामन्तरेणापि, कचित्फलहेतुत्वात्, कुत इत्याह-"तन्मूलत्वात्" तत्त्वाविरुद्धहृदयपूर्वकत्वात् "सकलचेष्टितस्य" शुभाशुभरूपपुरुषार्थप्रवृत्तिरूपस्य "एवं" प्रस्थकदृष्टान्तवद् "अतोऽपि" जैनदर्शनादेव विनिर्गतानि-पृथग्भूतानि तानि यानि दर्शनानि-नयवादास्तेषामनुसारतः, तत्रोक्तमित्यर्थः, " सर्व " दृष्टान्तजालम् " इह " दर्शने योज्यं किंविशिष्टमित्याह " सुप्तमण्डितप्रबोधदर्शनादि ” यथा कम्यचित् सुप्तस्य सतो मण्डितस्य कुङ्कुमादिना प्रबोधे-निद्रापगमे अन्यथाभूतस्य सुन्दरस्य चात्मनो दर्शनम्-अवलोकनमाश्चर्यकारि भवति, तथाऽपुनर्बन्धकस्यानाभोगवतो विचित्रगुणालङ्कृतस्य सम्यग्दर्शनादिलाभकाले विस्मयकारि आत्मनो दर्शनमिति, आदिशब्दान्नावादिना सुप्तस्य सतः समुद्रोत्तीर्णस्य बोधेऽपि तीर्णदर्शनादि ग्राह्यमिति । दार्टान्तिकसिद्धयर्थमाह-“न” नैव "हिः” यस्माद् “एवं" प्रस्थककर्त्तनन्यायेन प्रवर्त्तमानोऽपुनर्बन्धको "न" नैव न “ इष्टसाधकः " प्रस्थकतुल्यसम्यक्त्वादिसाघकोऽपि तु साधक एवेति, अपुनर्बन्धकस्यैव लक्षणमाह-"भग्नोऽपि” अपुनर्बन्धकोचितसमाचारात्कथञ्चित् च्युतोऽपि “ एतद्यनलिङ्गः” पुनः स्वोचिताचारप्रयत्नावसेयोऽपुनर्बन्धकः आदिधामिक इति एतदिति-इदमेव प्रकृतं चैत्यवन्दनव्याख्यानमिति, “ महेत्यादि " महतः-सच्चैत्यवन्दनादेः कल्याणस्य-कुशलस्य विरोधि-बाधकमवज्ञाविप्लावनादि "न" नैव “चिन्तनीयम्” अध्यवसेयं कुत इत्याह-चिन्तामणीत्यादि सुगमम् ॥ इतिश्रीमुनिचन्द्रसरिविरचितायां ललितविस्तरापअिकायां सिद्धमहावीरादिस्तवः समाप्तः॥

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550