Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 535
________________ ललितविस्तरासंस्कृतटीका १८७ (२१) निरूपयितव्या धारणा धारणा तु क्वचिद्ध्येये चित्तस्य स्थिरबन्धनम् । तत्स्वरूपध्येयविषयकं ध्यानं चित्ते स्थिरबन्धनं निरूपणीयम् . (२२) परिहर्त्तव्यो विक्षेपमार्गः पूर्वोक्त-धारणावेलायां विक्षेपमार्गः-विक्षेपकमनइन्द्रियादिविषयचिन्तनरूप--विक्षेपमार्गः, परिहारविषयः कार्यः, प्रस्तुतविषयाद् विषयान्तरे न गन्तव्यम् । (२३) यतितव्यं योगसिद्धौ=मोक्षेण सह योजकत्वेन योगः-सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः, तन्मार्गविषयकसाधनायाः सिद्धौ (शुद्धौ) प्रयत्नः-पुरुषार्थः कर्त्तव्यः । योगसिद्धेः प्रभावादशुभकर्मनाशः प्रवलपुण्यानुबंधि-पुण्योपार्जनम् । (२४) कारयितव्या भगवत्प्रतिमाः यै भगवद्भिः, सकलनवतत्त्वकर्त्तव्यानि प्रकाशितानि, तेषां परमोपकारेण सह परमोपकारिणं चक्षुः समक्षं आनेतुं, सालंवनं ध्यानं कर्तुं तत्प्रतिमाः कारयितव्याः । (२५) लेखनीयं भुवनेश्वरवचन त्रिभुवनेश्वराणां वचनानि विशिष्टपतिषु लेखनीयानि लेखकानां पार्वतोऽपि, तथा च भगवतां मूर्तिनिर्माण शास्त्रलेखनं भगवतोऽर्हतः प्रति कृतज्ञताऽपि, ऋणमुक्तिः प्रकटिता गण्यते । (२६) कर्तव्यो मङ्गलजापः='भावमंगलं जिननामेत्युक्तेः,' ऋषभादितीर्थकराणां नामरूपभावमंगलजापः कार्यः, नमस्कारमहामंत्ररूपपंचपरमेष्ठिनां मंगलमयजापः, जापेन नामनिक्षेपेण, प्रतिमया स्थापना-निक्षेपेण, शास्त्रलेखनेन, भावनिक्षेपेण भगवत्पूजा कथ्यते, जापतः, त्रिकरणशुद्धिः, ततो विघ्ना विनश्यन्ति ।। (२७) प्रतिपत्तव्यं चतुःशरणं अर्हन्तो मे शरणं, सिद्धाश्च मे शरणं, साधवो मे शरण, जैनधर्मों मे शरणं इति चतुःशरणं स्वीकर्त्तव्यं । (२८) गर्हितव्यानि दुष्कृतानि=स्वकृतं यद्यद् दुष्कृतं (पापं ) ततद् गर्हितव्यम् । (२९) अनुमोदनीयं कुशलम् -स्वपरकृतं यद्यत्कुशलं ( पुण्यमात्रं ) त्तद् अनुमोद. नीयं प्रशंसनीयम् । (३०) पूजनीया मन्त्रदेवताः स्वस्वेष्टमन्त्राधिष्ठायका देवाः, सामान्येनार्हदाद्या विशेषतो महावीराद्या देवाः स्वद्रव्यार्पणतो भव्यपूजाः कर्तव्याः, ततश्चित्तप्रसन्नत्वं समाधिश्च प्राप्यते । . (३१) श्रोतव्यानि सच्चेष्टितानि=सत्कृत्यानि, श्रोतव्यानि श्रवणविषयीकर्तव्यानि । (३२) भावनीयमौदार्य-उदारत्वेन हृदयं भावनाविषयीकर्त्तव्यम् , पुनःपुनर्जीवनप्रसंगेषु मनोवृत्तिविशाला-उदारा कार्या, तदभ्यासतो हृदयं, औदार्यभावितं भवति, विशालहृदयं सर्वत्र भवति ।

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550